SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ६२ प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/२/-/४५७ सम्प्रति देवदेवीविषयं सूत्रमाह-एएसि णमित्यादि, सर्वस्तोका देवाः शुक्ललेश्याः, तेभ्योऽसङ्ख्येयगुणाः पद्मलेश्याः,तेभ्योऽप्यसङ्ख्येयगुणाः कापोतलेश्याः, तेभ्योनीललेश्या विशेषाधिकाः, तेभ्योऽपिकृष्णलेश्या विशेषाधिकाः, एतावनागेव भावितं, तेभ्योऽपि कापोतलेश्याका देव्यः सङ्घयेयगुणाः, ताश्च भवनपतिव्यन्तरनिकायान्तर्गता वेदितव्याः,अन्यत्र देवीनांकापोतलेश्याया असंभवात्, देव्यश्च देवेभ्यः सामान्यतःप्रतिनिकायं द्वात्रिंशद्गुणाःततः कृश्णलेश्येभ्यो देवेभ्यः कापोतलेश्या देव्यः सङ्घयेयगुणा अपिघटन्ते, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, अत्रापि प्राग्वद्भावना, ताभ्योऽपि तेजोलेश्या देवाः सङ्खयेयगुणाः, कतिपयानां भवनपतिव्यन्तराणां समस्तानां ज्योतिष्कसौधर्मेशानदेवानां तेजोलेश्याकत्वात्, तेभ्योऽपि तेजोलेश्याका देव्यः सङ्खयेयगुणाः द्वात्रिंशद्गुणत्वात् । सम्प्रति भवनवासिदेवविषयं सूत्रमाह-एएसिणंभंते!' इत्यादि, सर्वस्तोकास्तेजोलेश्या महर्द्धयो हि तेजोलेश्याका भवन्ति महर्द्धयश्चाल्पे इति ते सर्वस्तोकाः, तेभ्योऽसङ्खयेयगुणाः कापोतलेश्याः, अतिशयेन प्रभूतानां कापोतलेश्यासंभवात्, तेभ्यो नीललेश्या विशेषाधिकाः, अतिप्रभूततमानां कृष्णलेश्याभावात् । एवं भवनपतिदेवीविषयमपि सूत्रं भावनीयं । अधुना भवनपतिदेवदेवीविषयं सूत्रमाह-एएसिण'मित्यादि, सर्वस्तोका भवनवासिनो देवाः तेजोलेश्याकाः, युक्तिरत्र प्रागेवोक्त, तेभ्योस्तेजोलेश्याकाभवनवासिन्योदेव्यः सङ्ख्येयगुणाः देवेभ्यो हि देव्यः सामान्यतःप्रतिनिकायं द्वात्रिंशद्गुणास्तत उपपद्यते सङ्ख्येयगुणत्वमिति, तेभ्यः कापोतलेश्या भवनवासिनो देवा असङ्खयेयगुणाः, तेभ्यो नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, युक्तिरत्रप्रागुक्ताऽनुसरणीया, तेभ्यः कापोतलेश्या भवनवासिन्यो देव्यः सङ्घयेयगुणाः, भावना प्रागुक्तभावनानसारेणभावनीया, ताभ्यो नीललेश्या विशेषाधिकाः, ताभ्यः कृष्णलेश्या विशेषाधिकाः, एवं वानमन्तरविषयमपिसूत्रत्रयं भावनीयं, ज्योतिष्कविषयमेकमेव सूत्रं, तनिकाये तेजोलेश्याव्यतिरेकेण लेश्यान्तरासम्भवतः पृथग् देवदेवीविषयसूत्रद्वयासम्भवात्, वैमानिकदेवविषयं सूत्रमाह-'एएसिणंभंते! वेमाणियाण'मित्यादि, सर्वस्तोका वैमानिका देवाःशुक्ललेश्याः, लान्तकादिदेवानामेव शुक्ललेश्यासम्भवात्, तेषांचोत्कर्षतोऽपि श्रेण्यसङ्ख्येयभागगतप्रदेशराशिमानत्वात्, तेभ्यः पालेश्या असङ्ख्येयगुणाः, सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिनां सर्वेषामपि देवानां पद्मलेश्यासम्भवात, तेषां चातिबृहत्तमश्रेण्यसत्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, लान्तकादिदेवपरिमाणहेतुश्रेण्यसङ्खयेयभागापेक्षयाह्यमीषांपरिमाणहेतुः श्रेण्यसङ्खयेयभागोऽसङ्खयेयगुणः, तेभ्योऽपि तेजोलेश्या असङ्खयेयगुणाः तेजोलेश्या हि सौधर्मशानदेवानां, ईशानदेवाश्चाङ्गुलमात्रक्षेत्रप्रदेशराशेः सम्बन्धिनि द्वितीयवर्गमूलेतृतीयेन वर्गमूलेन गुणिते यावात् प्रदेशराशिर्भवति तावप्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषुयावन्तोनभःप्रदेशाः तावप्रमाण ईशानकल्पगतदेवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पादेवाः, तेभ्योऽपिच सौधर्मकल्पदेवाः सङ्खयेयगुणाः, ततो भवन्ति पद्मलेश्येभ्यस्तेजोलेश्या असङ्खयेयगुणाः,देव्यश्च सौधर्मेशानकल्पयोरेव, तत्र च केवला तेजोलेश्या, ततो लेश्यान्तरासम्भवान्न तद्विषयं पृथरसूत्रं अतः । सम्प्रति देवदेवीविषयं सूत्रमाह-'एएसिणं भंते ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy