________________
पदं - १७, उद्देशक :- २, द्वारं
संखेजगुणाओ काउलेसाओ सं० निललेसा विसे० कण्हले० विसे० काउलेसा वि० कण्हलेसाओ विसेसाहियाओ कण्हले ० संमु० पंचेंदि० तिरिअ० सं० नीलले० विसे० कण्हले० विसेसाहिया एएसि णं भंते! पंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीण य कण्हलेस्साणं जाव सुक्कलेसाणं कयरे कयरेहिंतो अप्पा वा ४?, गो० ! सव्वत्थोवा पंचेदियतिरि० सुक्कलेस्सा सुक्कलेसाओ संखि० पम्हलेसा सं० पम्हलेसाओ संखेज्जगुणाओ तेउलेसा सं० तेउलेस्साओ संखिजगुणाओ काउले० संखे० नीललेसाओ विसेसाहियाओ कण्हलेसाओ विसेसा० काउले० असंखेज्जगुणा नीलले ० विसे० कण्हले० विसेसाहियाओ, एएसिणं भंते! तिरि० तिरिक्खजोणिणीण य कण्हले० जाव सुक्क० कयरे कयरेहिंतो अप्पा वा ४१, गो० ! जहेब नवमं अप्पाबहुगं तहा इमंपि, नवरं काउले० तिरि० अनं०, एवं एते दस अप्पाबहुगा तिरिक्खजोणियाणं ।
वृ. अधुना तिर्यक्पञ्चेन्द्रियष्वल्पबहुत्वमाह - 'एएसि णं भंते!' इत्यादि, 'एवं जहा ओहिया' इति एवम् उपदर्शितेन प्रकारेण यथा प्रागोधिकास्तथा वक्तव्याः, नवरमलेश्यावर्जाः, तिरश्चामलेश्यानामसंभवात्, ते चैवं - सर्वस्तोकाः तियंगोनिकाः शुक्ललेश्याः, ते च जघन्यपदेऽप्यसङ्ख्याता द्रष्टव्याः, तेभ्य सङ्घयेयगुणाः पद्मलेश्याः, तेभ्योऽपि सङ्घयेयगुणास्तेजोलेश्याः, तेभ्योऽप्यनन्तगुणाः कापोतलेश्याः, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, तेभ्योऽपि सलेश्या विशेषाधिकाः । साम्प्रतममेकेन्द्रियेष्वल्पबहुत्वमाह
'एएसि णं भंते! एगिंदियाण' मित्यादि, सर्वस्तोका एकेन्द्रियास्तेजोलेश्याः, कतिपयेषु बादरपृथिव्यब्वनस्पतिकायिकेष्वपर्याप्तावस्थायां तस्याः सद्भावात्, तेभ्यः कापोतलेश्या अनन्तगुणाः, अनन्तानां सूक्ष्मबादरनिगोदजीवानां कापोतलेश्यास-द्भावात्, तेभ्योऽपि नीललेश्या विशेषाधिकाः, तेभ्योऽपि कृष्णलेश्या विशेषाधिकाः, अत्र भावना प्रागेवोक्ता ।
सम्प्रति पृथिवीकायिकादिविषयमल्पबहुत्वं वक्तव्यं, तत्र पृथिव्यब्वनस्पतिकायानां चतस्रो लेश्याः तेजोवायूनां तिन इति तथैव सूत्रमाह- 'एएसि णं भंते ! पुढविकाइयाण' मित्यादि, सुगमं द्वित्रिचतुरिन्द्रियविषयमपि, पञ्चेन्द्रियतिर्यग्योन्द्रियतिरश्चां यथा तेजस्कायिकानामुक्तं तथा वक्तव्यं, तेजस्कायिकानामिव तेषामप्याद्यलेश्यात्रयमात्रसद्भावात्, गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकसूत्रे तेजोलेश्याभ्यः कापोतलेश्या असङ्घयेयगुणा वक्तव्याः, तावतामेव तेषां केवलवेदसोपलब्धतवात्, शेषमौधिकसूत्रवद् वक्तव्यं, एवं तिर्यग्योनिकानामपि सूत्रं वक्तव्यं, तथा चाह - ' एवं तिरिक्खजोणिणीणवि' ।
५९
अधुना संमूर्च्छिमगर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियतिर्यक्स्त्रीविषयं सूत्रमाह- 'एएसि णं भंते !' इत्यादि सुगमं, एतच्च प्रागवद् भावनीयं, इदं किल पञ्चेन्द्रियतिर्यग्योनिकाधिकारे षष्ठं सूत्रमनन्तरोक्तं च पञ्चममत उक्तं ' जहेव पंचमं तहा इमं छट्टं भाणियव्वं', अधुना गर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियतिर्यक्स्त्रीविषयं सप्तमं सूत्रमाह
'एएसि णं भंते!' इत्यादि सुगमं, नवरं सर्वास्वपि लेश्यासु स्त्रियः प्रचुराः, सर्वसङ्घययापि च तिर्यक्पुरुषेभ्यस्तिर्यवस्त्रियस्त्रिगुणाः “तिगुणा तिरूव अहिया तिरियाणं इत्थिया मुणेयव्या" इति वचनात्, ततः सङ्ख्यायतगुणा उक्ताः, नपुसकास्तु गर्भव्युत्क्रान्तिकाः कतिपय इति न ते यथोक्तमल्पबहुत्वं व्याप्नुवन्ति, सम्प्रति समूर्च्छिमपञ्चेन्द्रियतिर्यग्योनिकगर्भव्युत्क्रान्तिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org