________________
पदं-१६, उद्देशकः, द्वारं
४१
वृ. 'कइविहे णं भंते ! गइप्पवाए' इत्यादि, गमनं गतिः प्राप्तिरित्यर्थः, प्राप्तिश्च देशान्त रविषया पर्यायान्तरविषया च, उभयत्रापि धात्वर्थोपपत्तेः गतिशब्दप्रयोदर्शनाच्च, तथाहि-कव गतोदेवदत्तः?,पत्तनं गतः,तथा वचनमात्रेणाप्यसौ गतः कोपमित्, लोकोत्तरेऽप्युभयथा प्रयोग:परमाणुरेकसमयेन एकस्माल्लोकान्तादपरं लोकान्तं गच्छति, तथा तानि तान्यध्यवसायान्तराणि गच्छन्तीति, गतेः प्रपातो गतिप्रपातः,
सकतिविधः प्रज्ञप्तः?,कुत्र कुत्र गतिशब्दप्रवृत्तिरुपनिपततीत्यर्थः, भगवानाह–पञ्चविधः प्रज्ञप्तः तदेव पञ्चविधत्वं दर्शयति-'प्रयोगगति रित्यादि, प्रयोगः प्रागुक्त; पञ्चदशविधः स एव गतिःप्रयोगगतिः, इयंदेशान्तरप्राप्तिलक्षणाद्रष्टव्या, सत्यमनःप्रभृतिपुद्गलानांजीवेन व्यापार्यमाणानायथायोगमल्पबहुदेशान्तरगमनात् १ । 'ततगई' इति तता-विस्तीर्णासाचासौ गतिश्चततगतिः, तथाहि-यं ग्रामं सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं ग्रामादिकं यावदद्यापि न प्राप्नोति तावदन्तरा पथि एकैकस्मिन्न पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा गतिरस्तीति ततगतिः, इयं विस्तीर्णत्वविशेषणात् पृथगुपात्ता, अन्यथा प्रयोगगताववेयमन्तर्भवति, पादन्याससस्य शरीरप्रयोगात्मकत्वात्, एवमुत्तरत्रापि यथायोगं परिभावनीयं २॥
तथा बंधणछेयणगई' इति, बन्धनस्यछेदनंबन्धनच्छेदनं तस्मात् गतिर्बन्धनच्छेदनगतिः, सा च जीवेन विमुक्तस्य शरीरस्य शरीराद्वा विच्युतस्य जीवास्यावसातव्या, न तु कोशसम्बन्धविच्छेदादेरण्डबीजादेः, तस्या विहायोगतिभेदत्वेन वक्ष्यमाणत्वात् ३।
‘उववायगई इति, उपपातः-प्रादुर्भावः, सच क्षेत्रभवनोभवभेदात् त्रिविधः, तद्यथाक्षेत्रोपपातो भवोपपातो नोभवोपपातश्च, तत्र क्षेत्रं-आकाशं यत्र नारकादयो जन्तवः सिद्धाः पुद्गला वाअवतिष्ठन्ते, भवः-कर्मसम्पर्कजनितोनैरयिकत्वादिकः पर्यायः, भवन्ति कर्मवशवर्तिनः प्राणिनोऽस्मिन्निति भव इति व्युत्पत्तेः, नोभवः-भवव्यतिरिक्तः कर्मसम्पर्कसम्पाद्यनैरयिकत्वादिपर्यायरहितइतिभावः, सच पुद्गलः सिद्धोवा, उभयस्यापि यथोक्तलक्षणभवातीतत्वात्, उपपात एव गतिरूपपातगतिरिति ।।
विहायसा-आकाशेन गतिर्विहायोगतिः, सा चोपाधिभेदात् सप्तदशविधा, तद्यथास्पृशद्गतिरित्यादि, तत्र परमाण्वादिकं यदन्येन परमाण्वादिकेन परस्परं संस्पृश्य संस्पृश्यसम्बन्धनमनुभूयानुभूयेत्यर्थः इति भावः गच्छति सा स्पृशद्गतिः, स्पृशतो गतिरिति व्युत्पत्तेः तद्विपरीता अस्पृशद्गतिः, यत्परमाण्वादिकमन्येन परमाण्वादिना सह परस्परसम्बन्धमननुभूय गच्छति यथा परमाणुरेकेन समयेन एकस्माल्लोकान्तादपरं लोकान्तमिति, उपसंपद्यमानगतिर्यदन्यमुपसम्पद्य-आश्रित्य तदवष्टम्भेन गमनं यथा धनसार्थवाहावष्टम्भेन धर्मघोषसूरीणां, अनुपसम्पद्यमानगतिर्यत् परस्परमुपष्टम्भरहितानांपथि गमनं, मण्डूकगतिर्यत्मण्डूकस्येवोत्लुत्य गमनं, नावागतिर्यन्नावा महानद्यादौ गमनं, नयगतिर्यन्नायानांगमादीनांस्वस्वमतपोषणंअथवा यन्नयानां सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा नयगतिः,
छायागतिः-छायामनुसृत्य तदुपष्टम्भेन वा समाश्रयितुं गतिः छायागति;, छायानुपातगतिरितिछायायाः स्वनिमित्तपुरुषादेरनुपातेन-अनुसरणेनगतिः छायानुपातगतिः, तथाहि-छाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org