________________
२४
प्रज्ञापनाउपाङ्गसूत्र-१-१/-1-1१६ "पुव्वाहीयं सुयं से हवइ वा न वा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवाइ गच्छे य विहरइत्ति, अह पुव्वाधीयसमयसम्भवोऽत्थितोसे लिङ्गदेवया पडियच्छइगुरुसन्निहे वा पडिवाइ, जइ य एगविहारविहरणसमत्थो इच्छा वा से तो एको चेव विहरइ, अन्यथा गच्छे विहरइ" ति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि, उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि, तथा लिङ्गंतस्मैदेवताप्रयच्छतिलिङ्गरहितोवाकदाचिद्भवति, तथा चोक्तम्-"पत्तेयबुद्धाणं पुव्वाहीयं सुयं नियमा हवइ, जहन्नेणं इक्कारस अङ्गा, उक्कोसेणं भिन्नदसपुव्वा, लिङ्गंचसेदेवया पयच्छइ, लिङ्गवजिओवा भवइ, जओ भणियं-रुप्पंपत्तेयबुद्धा" इति।
तथा बुद्धा-आचार्यास्तैर्बोधिताःसन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः । एते च सर्वेऽपि केचित्स्त्रीलिङ्गसिद्धाः,स्त्रिया लिङ्गं स्त्रीलिङ्गं, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्चत्रिधा, तद्यथा-वेद:शरीरनिवृत्तिर्नेपथ्यंच,तत्रेह शरीरनिर्वृत्त्या प्रयोजनम्, न वेदनेपथ्याभ्यां, वेदे सतिसिद्धत्वाभावात्, नेपथ्यस्यचाप्रमाणत्वात्, आह चनन्धध्ययनचूर्णिकृत्-"इत्थीए लिङ्गंइथिलिङ्ग, इत्थीए उवलक्खणंति वुत्तं भवइ, तंच तिविहं-वेदो सरीरनिवित्ती नेवत्थं च, इह ससीरनिव्वत्तीए अहिगारो, न वेयनेवत्थेहि"ति । ततस्तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः, एतेन यदाहुरा- शाम्बराः-'न स्त्रीणां निर्वाण'मिति, तदपास्तं द्रष्टव्यं, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तप्रतिषेधस्य युत्तयाअनुपपन्नत्वात, तथाहि-मुक्तिपथोज्ञानदर्शनचारित्राणि 'सम्यग्दर्शन- ज्ञानचारित्राणि मोक्षमार्ग' इति वचनात्, सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथाहि-श्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः,
जानतेचषडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं, परिपालयन्ति सप्तदशप्रकारमकलङ्ग संयम, धारयन्ति च देवासुराणामपि दुर्धरं ब्रह्मचर्य, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव नतासांमोक्षसम्भवनः?,स्यादेतत्-अस्ति स्त्रीणांसम्यग्दर्शनंज्ञानवा, नपुनश्चारित्रं, संयमाभावात्, तथाहि-स्त्रीणामवश्यं वस्त्रपरिनभोगेन भवितव्यमन्यथा विवृताङ्गयस्तास्तिर्यकस्त्रियइवपुरुषाणामभिभवनीया भवेयुः, लोकेच गर्होपजायते, ततोऽवश्यंताभिर्वस्त्रंपरिभोक्तव्यं, वस्त्रपरिभोगेचसपरिग्रहता, सपरिग्रहत्वेचसंयमाभावइति, तदसमीचीनम्, सम्यक् सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतोमूर्छाऽभिधीयते, 'मुच्छा परिग्गहोवुत्तो' इतिवचनात्, तथाहिमूरिहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्पपरिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपि च-यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पंप्रतिपन्नस्य कस्यचित्साधोस्तुषारकणानुषक्तेप्रपततिशीते केनाप्यविषह्योपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रक्षिप्ते तस्य सपरिग्रहता भवेत्,
न चैतदिष्टं, तस्मान्न वस्त्रसंसर्गमात्रं परिग्रहः, किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते, धर्मोपकरणमात्रतया तस्योपादानात, न खलु ता वस्त्रमन्तरेणात्मानंरक्षयितुमीशते, नापि शीतकालादिषु व्यग्रदशायां स्वाध्यायादिकं कर्तुं, ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना नताः परिग्रहवत्यः, अथोच्येत-सम्भवतिनामस्त्रीणामपि सम्यग्दर्शनादिकं रत्रत्रयं, परं न तत् सम्भवमात्रेण मुक्तिपदप्रापकं भवति, किन्तु प्रकर्षप्राप्तम्, अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तिः, सम्यग्दर्शनादिरलत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org