________________
२६२
प्रज्ञापनाउपाङ्गसूत्र-१-११/-1-1३७६ जातिप्ररूपिका, यथा नपुंसकः स्वभावात् क्लीबो भवति, प्रबलमोहानलज्वालाकलापज्वलितश्चेत्यादिप्रज्ञापन्येषाभाषा नैषा भाषामृषेति, अत्रापीदंसंशयकारणंवण्यते खलुजातिगुणाः एवंरूपाः परं क्वचित्कदाचिद् व्यभिचारोऽपि दृश्यते, तथाहि-रामाऽपि काचित् गम्भीराशया भवतिधृत्या चातीव बलवती, पुरुषोऽपिच कश्चित्तुच्छप्रकृतिरूपो लभ्यतेस्तोकायामपि चापदि क्लीबतां भजते, नपुंसकोऽपि कश्चिन्मन्दमोहानलो घढसत्त्वश्च,
ततः संशयः-किमेषा प्रज्ञापनी किं वा नेति ?, अत्र भगवानाह–'हंता ! गोयमा !' इत्यादि, अक्षरार्थः सुगमः, परं भावार्थस्त्वयं-इह जातिगुणप्ररूपणं बाहुल्यमधिकृत्य भवति न समस्तव्यक्तयाक्षेपेणात्एव जातिगुणान्प्ररूपयन्तो विमलधियःप्रायःशब्दं समुच्चारयन्ति, प्रायेणेदं द्रष्टव्यं, यत्रापि न प्रायःशब्दश्रवणंतत्रापि सद्रष्टव्यः प्रस्तावात्, ततः क्वचित्कदाचिद्व्यभिचारेऽपि दोषाभावात् प्रज्ञापन्येषा भाषा न मृषेति ॥
इह भाषा द्विधा दृश्यते-एका सम्यगुपयुक्तस्य द्वितीया त्वितरस्य, तत्र यः पूर्वापरानुसन्धानपाटवोपेतः श्रुतज्ञानेन पर्यालोच्यार्थान् भाषते स सम्यगुपयुक्तः, स चैवं जानाति-- अहमेतद्भाषेइति, यस्तुकरणापटिष्टतयावातादिनोपहतचैतन्यकतया वापूर्वापरानुसन्धानविकलो यथाकथंचित् मनसा विकल्प्य विकल्प्य भाषतेस इतरः, सचैवमपि न जानाति-यथा अहमेतत् भाषेइति, बालादयोऽपिच भाषमाणा श्यन्ते, ततः संशयः-किमेतेजानन्ति यद्वयमेतत् भाषामहे इति किं वा नजानन्तीति पृच्छति
मू. (३७७) अह भंते ! मंदकुमाराए वा मंदकुमारिया वा जानति बुयमाणा अहमेसे बुयामीति?, गो०! नो इणढे समढे, नन्नस्थ सणिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जाणइ आहारं आहारेमाणे अहमेसे आहारमाहारेमित्ति?, गो० ! नो इणढे समढे, नन्नत्य सणिणो, अह भंते! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे अम्मापियरो?, गो०! नो इणढे समढे, नन्नत्य सण्णिणो,
अह भंते! मंदकुमारए वामंदकुमारियावाजानति अयंमेअतिराउलोअयं मेअइराउवलेत्ति गो० ! नो तिणढे समढे, नन्नत्य सण्णिणो, अह भंते ! मंदकुमारए वा मंदकुमारिया वा जानति अयं मे भट्टिदारए अयं मे भट्टिदारियत्ति?, गो० ! नो इणढे समढे, नन्नत्य सण्णिणो, अह भंते! उट्टे गोणे खरे घोडए अए एलतो जाणति बुयमाणे अहमेसे बुयामि?, गो० ! नो इणढे समढे, नन्नत्य सणिणो,
अह भंते ! उट्टे जाव एलते जानति आहारं आहारेमाणो अहमेसे आहारेमि?, गो० ! नो इणढे समढे जाव नन्नत्य सण्णिणो, अह भंते ! उट्टे गोणे खरे घोडए अए एलए जानति, अयं मे अम्मापियरो?, गो० ! नो इणढे समढे जाव नन्नत्थ सण्णिणो, अह भंते ! उट्टे जाव एलए जाणति, अयं मे अतिराउलेत्ति?, गो० ! नो इणढे समढे जाव नन्नत्थ सण्णिणो,
___ अह भंते ! उट्टे जाव एलए जानति अयं मे भट्टिदारए २?, गोयमा! नो इणढे समढे जाव नन्नत्य सणिणो।
वृ. 'अह भंते ! मंदकुमारए वा' इत्यादि, अथ भदन्त ! मन्दरकुमारकः उत्तानशयो बालको मन्दकुमारिका-उत्तानशया बालिका भाषमाणाभाषायोग्यान्पुद्गलानादाय भाषात्वेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org