________________
प्रज्ञापनाउपाङ्गसूत्रं - १-१०/-/-/३६१ अचरमंतपएसाय' इति, चरमाण्येवान्तवर्तित्वात् अन्ताश्चरमान्तास्तत्प्रदेशाश्च चरमान्तप्रदेशाः, अचरममेव कस्याप्यपेक्षयाऽनन्तवर्तित्वादन्तः अचरमान्तस्तत्प्रदेशा अचरमान्तप्रदेशाः ।
तदेवं षट्सु प्रश्नेषु कृतेषु भगवानाह - गौतम ! सा रत्नप्रभा पृथिवी न चरमा, चरमत्वं ह्यापेक्षिकमित्युक्तं, न चात्रान्यदपेक्षणीयमस्ति, केवलाया एव तदन्यनिरपेक्षायाः पृष्टत्वात्, नाप्यचरमा, तत एव हेतोः, तथाहि - अचरमत्वमपि आपेक्षिकं, न चात्रान्यदपेक्षणीयमस्तीति, किमुक्तं भवति ? - इयं रत्नप्रभा पृथिवी न पश्चिमा नापि मध्यमा, तदन्यस्यापेक्षणीयस्याविवक्षणादिति, अत एव न चरमाणि, चरमत्वव्यपदेशस्यैवासंभवतस्तद्विषयबहुवचनासंभवात्, तथाहि
यदा तस्याश्चरमत्वव्यपदेश एवोक्तयुक्तेर्नोपपद्यते तदा कथं तद्विषयं बहुवचनमुपषतुमर्हतीति ?, एवमचरमाण्यपि प्रतिषेधनीयानि, प्रागुक्तयुक्तेरचरमत्वव्यपदेशस्यासंभवात्, तथा न च चरमान्तप्रदेशा नाप्यचरमान्तप्रदेशाः, उक्तयुक्त्या चरमत्वस्वाचरमत्वस्य चासंभवतस्तत्प्रदेशकल्पनाया अप्यसंभवात् यच्चेवं तर्हि किस्वरूपा सा ? इत्यत आह
'नियमाद्' नियमेनाचरमं चरमाणिच, किमुक्तं भवति ? यदीयमखण्डरूपा विवक्षितत्वात् पृच्छयते तदा यथोक्तभङ्गानामेकेनापि भङ्गेन व्यपदेशो न भवति, यदा त्वसङ्घयेय प्रदेशावगाढेत्यनेकावयविभागात्मिका विवक्ष्यते तदा यथोक्तनिर्वचनविषया भवति, तथाहि - रत्नप्रभा पृथिवी तावदनेन प्रकारेण व्यवस्थिता ।
एवमवस्थिताया अस्या यानि प्रान्तेष्ववस्थितानि खण्डानि प्रत्येकं तथाविधविशिष्टैकत्वपरिणामपरिणतानि तानि चरमाणि, यत्पुनर्मध्ये महद्रत्नप्रभायाः खण्डं तत्तथाविधैकत्वपरिणामत्वादेकत्वेन विवक्षितमित्यचरमं, उभयसमुदायरूपा चेयं, अन्यथा तदभावप्रसङ्गात्, तदेवमवयवावयविरूपतया चिन्तायामचरमं चरमाणि चेत्यखण्डैकनिर्वचनविषया प्रतिपादिता, यदा पुनः प्रदेशचिन्ता क्रियते तदैवं निर्वचनम् - चरमान्तप्रदेशाश्च अचरमान्तप्रदेशाश्च, तथाहि
ये बाह्यखण्डेषु गताः प्रदेशास्ते चरमान्तप्रदेशाः, ये पुनर्मध्यैकखण्डगताः प्रदेशास्ते अचरमान्तप्रदेशाः, अन्ये तु व्याचक्षते - चरमाणि नाम तथाविधप्रविष्टेतरप्रान्तैकप्रादेशिक श्रेणिपटलरूपाणि, मध्यभागोऽचरम इति, तदपि समीचीनं, दोषाभावात, चरमान्तप्रदेशा यथोक्तरूपप्रान्तैकप्रादेशिक श्रेणिपटलगताः प्रदेशाः, अचरमान्तप्रदेशा मध्यभागगताः प्रदेशाः, अनेन निर्वचनसूत्रेण एकान्तदुर्नयनिरोधप्रधानेन अवयवावयविरूपंरत्नप्रभादिकं वस्तु तयोश्चावयवावयविनोर्भेदाभेद इत्यावेदितं, यथा चावयवावयविरूपतायां न परोक्तदूषणावकाशस्तथा धर्मसंग्रहणिटीकायां बाह्यवस्तुप्रतिष्ठाऽवसरे प्रतिपादितमिति ततोऽवधार्यं । 'एवं जाव अहेसत्तमाए पुढवी 'त्यादि, यथा रत्नप्रभा पृथिवी प्रश्ननिर्वचनाभ्यामुक्ता एवं शर्कराद्या अपि पृथिव्यः सौधर्मादीनि च विमानानि अनुत्तरविमानपर्यवसानानि ईषत्प्राग्भारा लोकश्च वक्तव्यः ।
सूत्रपाठेोऽपि सुगमत्वात्स्वयं परिभावनीयः, स चैवम्--'सक्करप्पभा णं भंते! पुढवी किं चरमा अचरमा चरमाणि अचरमाणि' इत्यादि ।
एवं 'अलोगेवि' इति, एवम् उक्तेन प्रकारेणालोकोऽपि वक्तव्यः, स चैवम्-"अलोए णं भंते! किं चरमे अचरमे" इत्यादि प्रश्नसूत्रं तथैव निर्वचनसूत्रं 'गोयमा! अचरमे चरमाणि य चरमंतपदेसा य अचरमंतपदेसा य' तत्र चरमाणि यानि खण्डानि लोकनिष्कुटेषु प्रविष्टानि शेषमन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
२४०