________________
२३२
प्रज्ञापनाउपाङ्गसूत्र-१-७/-1-1३५३
गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसाए पक्खाणं जाव नीससंति वा॥
वृ. 'नेरइयाणं भंते!' इत्यादि, नैरयिका णमिति वाक्यालङ्कारे भदन्त ! केवइकालस्स' इति प्राकृतशैल्या पञ्चम्यर्थे वा तृतीयार्थे वा षष्ठी ततोऽयमर्थः-कियतः कालात् कियता वा कालेन ‘आणमंति' आनन्ति अन् प्राणने' इति धातुपाठात् मकारोऽलाक्षणिकः, एवमन्यत्रापि यथायोगंपरिभावनीयं, पाणमंतिवा' प्राणन्ति वाशब्दो समुच्चयार्थी, एतदेव पदद्वयंक्रमेणार्थतःस्पष्टयति-'ऊससंति वा नीससंति वा' यदेवोक्तमानन्ति तदेवोक्तमुच्छ्वसन्ति तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्ति, अथवा आनमन्ति प्राणमन्ति इति ‘णम् प्रत्ये; इत्यस्य द्रष्टव्यं, धातूनामनेकार्थतया श्वसनार्थत्वस्याप्यविरोधः, अपरे आचक्षते-आनन्ति प्राणन्तीत्यनेनान्तः स्फुरन्ती उच्छ्वासनिः श्वासक्रियापरिगृह्यते उच्छ्वसन्ति निःश्वसन्तीत्यनेन तुबाह्या, एवं गौतमेन प्रश्ने कृते भगवानाह
गौतमः सततमविरहितं, अतिदुःखिता हि नैरयिकाः, दुःखितानां च निरन्तरमुच्छ्वासनिःश्वासौ, तथा लोकेदर्शनात, तच्च सततंप्रायोवृत्त्याऽपिस्यादत आह–'संतयामेव' सततमेवअनवरतमेव, नैकोऽपि समयस्तद्विरहकालः, दीर्घत्वं प्राकृतत्वात्,आनमन्तीत्यादे; पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थ, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथाच सति पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते लोके चाऽऽदेयवचना भवन्ति एवं प्रभूतभव्योपकारस्तीर्थाभिवृद्धिश्च।
___ असुरकुमारसूत्रे 'उक्कोसेणंसातिरेगस्स पक्खस्स' इति, इहदेवेषुयस्ययावन्तिसागरोपमाणि स्थितिस्तस्य तावत्पक्षप्रमाण उच्छ्वासनिःश्वासक्रियाविरहकालः, असुरकुमाराणां चोत्कृष्टा स्थितिरेकंसातिरेकं सागरोपमं 'चमरबलि सारमहिय'मिति वचनात् ततः सातिरेगस्स पक्खस्स' इत्युक्तं, सातिरेकात्पक्षादूर्ध्वमुच्छ्वसन्तीत्यर्थः,पृथिवीकायिकसूत्रे 'वेमायाए' इति विषमा मात्रा विमात्रा तया, किमुक्तं भवति ?- अनियतविरहकालप्रमाणा तेषामुच्छ्वासनिःश्वासक्रिया, तथा देवेषु यो यथा महायुःस तथा सुखी, सुखितानांच यथोत्तरं महानुच्छ्वासनिःश्वास क्रियाविरहकालः दुःखरूपत्वादुच्छ्वासनिःश्वासक्रियायाः, कततो यथायथाऽऽयुषः सागरोपमवृद्धिस्तथा तथोच्छ्वासनिःश्वासक्रियाविरहप्रमाणस्यापि पक्षवृद्धिः।
पदं -७- समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपागसूत्रस्य सप्तमपदस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(पदं-८- संज्ञा) वृ. तदेवं व्याख्यातं सप्तमं पदं, इदानीमष्टममारभ्यते, तस्य चामभिसम्बन्धः इहानन्तरपदे सत्त्वानामुच्छ्वासपर्याप्तिनामकर्मयोगाश्रया क्रिया विरहाविरहकालप्रमाणेनोक्ता, सम्प्रति वेदनीयमोहनीयोदयाश्रयान् ज्ञानावरणदर्शनावरणक्षयोपशमाश्रयांगचात्मपरिणामविशेषानधिकृत्य प्रश्नसूत्रमाह
मू. (३५४) कइ णं भंते ! सन्नाओ पन्नत्ताओ?, गोयमा ! दस सन्नाओ पन्नत्ताओ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org