________________
१६०
चाल्पे इति सर्वस्तोकाः, तेभ्यस्त्रैलोक्ये सङ्घयेयगुणाः, कथमिति चेत् ?, उच्यते,
ss as धोलौकिकग्रामेषु समवसरणादिनिमित्तमधोलोके वा क्रीडानिमित्तं गताः सन्तो वैक्रियसमुद्घातं मारणान्तिकसमुद्घातं वा कुर्वाणास्तथाविघप्रयत्नविशेषाद्दूरतरमूर्द्ध विक्षिप्तात्मप्रदेशदण्डा ये च वैमानिकभवादीलिकागत्या च्यवमाना अधोलौकिकग्रामेषु समुत्पद्यन्ते ते किलत्रीनपि लोकान् स्पृशन्ति बहवश्च पूर्वोक्तेभ्य इति सङ्घयेयगुणाः, तेभ्योऽप्यधोलोकतिर्यग्लोकेअधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्घयेयगुणाः, अधोलौकिकग्रामेषु समवसरणादौ गमनागमनभावतो ववक्षितप्रतरद्वयाध्यासितसमवसरणादी चावस्थानतो बहूनां यथोक्तप्रतरद्वयसंस्पर्शभावात्,
- तेभ्योऽधोलोके सङ्घयेयगुणाः, अधोलौकिकग्रामेषु बहूनां समवसरणादाववस्थानभावात्, तेभ्यस्तिर्यग्लोके सङ्घयेयगुणाः, बहुषु समवसरणेषु बहुषु च क्रीडास्था नेषु बहूनामवस्थानभावात्, तेभ्य ऊर्ध्वलोकेऽसङ्घयेयगुणाः, ऊर्ध्वलोकस्य स्वस्थानत्वात्, तत्र च सदैव बहुतरभावात् । एवं वैमानिकदेवीविषयं सूत्रमपि भावनीयं ॥ सम्प्रत्येकेन्द्रियादिगतमल्पबहुत्वमाह
मू. (२८९) खेत्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोके असंखिजगुणा उडलोए असंखिज्जगुणा अहोलोए विसेसाहिया । खेत्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा अपअत्तगा उडलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिजगुणा तेलोके असंखेजगुणा उडलोए असंखेज्जगुणा अहोलोए विसेसाहिया ।
खित्ताणुवाएणं सव्वत्थोवा एगिंदिया जीवा पज्जत्तगा उड्डलोयतिरियलोए अहोलोयतिरियलोए विसेसाहिया तिरियलोए असंखिज्जगुणा तेलोके असंखिज्जगुणा उष्टलोए असंखित्रगुणा अहोलोए विसेसाहिया ।
प्रज्ञापनाउपाङ्गसूत्रं - १- ३ /-/ २४/२८८
वृ. क्षेत्रानुपातेन चिन्त्यमाना एकेन्द्रिया जीवाः सर्वस्तोका ऊर्ध्वलोकतिर्यग्लोकेऊर्ध्वलोकतिर्यग्लोकसंज्ञा प्रतरद्वये, यतो ये तत्रस्था एव केचन ये चोर्द्धलोकात्तिर्यग्लोके तिर्यग्लोकादूर्द्धलोके समुत्पित्सवः कृतमारणान्तिकसमुद्घातास्ते किल विवक्षितं प्रतरद्वयं स्पृशन्ति स्वल्पाश्च ते इति सर्वस्तोकाः, तेभ्योऽधोलोकतिर्यगलोके विशेषाधिकाः, यतो ये अधोलोकातिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके ईलिकागत्या ममुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति तत्रस्थाश्च ऊर्ध्वलोकाच्चाधोलोके विशेषाधिकास्ततो बहवोऽधोलोकात्तिर्यग्लोके समुत्पद्यमाना अवाप्यन्ते इति विशेषाधिकाः, तेभ्यस्तिर्यग्लोकेऽसङ्घयेयगुणाः, उक्तप्रतरद्विकक्षेत्रात्तिर्यग्लोक क्षेत्रस्यासययगुणत्वात्, तेभ्यम्नलोक्य सङ्घयेयगुणाः, बहवो ह्यूर्ध्वलोकादघोलोके अधोलोकादूर्द्धलोके च समुत्पद्यन्ते तेषां च मध्ये बहवो मारणान्तिकसमुद्घातवशाद्विक्षिप्तात्मप्रदेशदण्डास्त्रीनपि लोकान् स्पृशन्ति ततो भवत्यसङ्घयेयगुणाः, तेभ्य ऊर्ध्वलोकेऽसङ्घयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वात्, तेभ्योऽधोलोके विशेषाधिकाः ऊर्ध्वलोकक्षेत्रादधोलोक क्षेत्रस्य विशेषाधिकत्वात् । एवमपर्याप्तविषयं पर्याप्तविषयं च सूत्रं भावयितव्यम् ॥ अधुना द्वीन्द्रियविषयमल्पबहुत्वमाह
,
मू. (२९०) खेत्ताणुवाएणं सव्वत्थोवा बिइंदिया उडलोए उढलोयतिरियलोए असंखिज्जगुणा तेलुके असंखिजगुणा अहोलोयतिरियलोए असंखिज्जगुणा अहोलोए संखिजगुणा तिरियलोए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org