SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ प्रज्ञापनाउपाङ्गसूत्र-१-३/-/४/२६४ गतमौधिकानामिदमल्पबहुत्वम्, इदानीमेतेषामेवापर्याप्तानामाह-एएसि णं भंते ! सुहुमअपनत्तगाणं' इत्यादि, सर्वप्राग्वद्भावनीयम्।सम्प्रत्येतेषामेव पर्याप्तनां तृतीयमल्पबहुलमाह “एएसिणं भंते ! सुहुमपजत्तगाणं' इत्यादि, इदमपि प्रागुक्तक्रमेणैव भावनीयं । अधुना अमीषामेव सूक्ष्मादीनां प्रत्येकं पर्याप्तपर्याप्तगतान्यलप्बहुत्वान्याह 'एएसि णं भंते ! सुहुमाणं पज्जत्तापज्जत्ताणं' इत्यादि, इह बादरेषु पर्याप्तेभ्योऽपर्याप्ता असह्ययगुणाः, एकैकपर्याप्तनिश्रयाऽसत्ययानामपर्याप्तानामुत्पादात्, तथा चोक्तंप्राक् प्रथमे प्रज्ञापनाख्ये पदे-“पज्जत्तगनिस्साए अपज्जत्तगावकमंति, जतअथ एगो तत्तनियमाअसंखेज्जा" इति, सूक्ष्मेषु पुनयिं क्रमः,पर्याप्ताश्चापर्याप्तापेक्षया चिरकालावस्थायिन इति सदैव ते बहवो लभ्यन्ते, तत उक्तं सर्वस्तोकाः सूक्ष्मा अपर्याप्ताः, तेभ्यःसूक्ष्माः पर्याप्तकाः सङ्घयेयगुणाः, एवं पृथिवीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पबहुत्वम्, इदानीं सर्वेषा समुदितानां पर्याप्तपर्याप्तगतं पञ्चममल्पबहुत्वमाह– “एएसिणं भंते! सुहुमाणंसुहुमपुढविकाइयाणं' इत्यादि, सर्वस्तोकाः सूक्ष्मतेजःकायिकाअपर्याप्ताः, कारणंप्रागेवोक्तं, तेभ्यः सूक्ष्मपृथिवीकायिकाअपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्माप्कायिकाअपर्याप्ता विशेषाधिकाः तेभ्यः सूक्ष्मवायुकायिकाअपर्याप्ता विशषाधिकाः, अत्रापि कारणं प्रागेवोक्तं, तेभ्यः सूक्ष्मतेजःकायिकाः पर्याप्ताः सङ्ख्येयगुणाः, अपर्याप्तेभ्यो हि पर्याप्ताःसङ्ख्येयगुणा इत्यनन्तरं भावितं, -तत्र सर्वस्तोकाःसूक्ष्मतेजःकायिका अपर्याप्ता उक्ताः इतरे च सूक्ष्मापर्याप्तपृथिवीकायिकादयो विशेषाधिकाः, विशेषाधिकत्वंचमनागधिकत्वं न द्विगुणत्वं न त्रिगुणत्वं वा, ततः सूक्ष्मतेजःकायिकेभ्योऽपयप्तिभ्यः पर्याप्ताः सूक्ष्मतेजःकायिकाः सङ्ख्येयगुणाः सन्तःसूक्ष्मवायुकायिकापर्याप्तभ्योऽपि सङ्ख्येयगुणा भवन्ति, तेभ्यःसूक्ष्मपृथिवीकायिकाः पर्याप्ताः विशेषाधिकाः तेभ्यः सूक्ष्माफ्कायिकाः पर्याप्ता विशेषाधिकाः तेभ्योऽपिसूक्ष्मवायुकायिकाः पर्याप्ताविशेषाधिकाः तेभ्यः सूक्ष्मनिगोदाःअपर्याप्ता अस ययगुणाः, तेषामतिप्राचुर्यात्, तेभ्यः सूक्ष्मनिगोदाःपर्याप्ताःसङ्ख्येयगुणाः, सूक्ष्मेष्वपयप्तिभ्यः पर्याप्तानामोघतः सङ्ख्येयगुणत्वात्, तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्तका अनन्तगुणाः प्रतिनिगोदमनन्तानां तेषांभावातू, तेभ्यः सामान्यतःसूक्ष्मा अपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्तकाः सङ्ख्यगुणाः, सूक्ष्मेषु ह्यपर्याप्तेभ्यः पर्याप्तकाः सङ्ख्येयगुणाः, यच्चापान्तराले विशेषाधिकत्वं तदल्पमिति न सङ्ख्येयगुणत्वव्याघातः, तेभ्यः सूक्ष्माः पर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिव्यादीनामपि पर्याप्तानांतत्र प्रक्षेपात्, तेभ्यःसूक्ष्मा विशेषाधिकाः, अपर्याप्तानमपि तत्र प्रक्षेपात्, । तदेवमुक्तानि सूक्ष्माश्रितानि पञ्च सूत्राणि, सम्प्रति बादराश्रितानि पञ्चोक्तक्रमेणा- भिधित्सुराह मू. (२६५) एएसिणंबते! बादराणं बादरपुढविकाइयाणं बादरआउकाइयाणं बादरतेउकाइयाणं बादरवाउकाइयाणं बादरवणस्सइकाइयाणं पत्तेयसरीरबादरवणस्सइकाइयाणं बादरनिगोदाणंबादरतसकाइयाणंकयरे कयरेहितो अप्पावा४?, गोयमा! सव्वत्थोवा बादरतसकाइया बादरतेउकाइया असंखेजगुणना पत्तेयसरीरबादरवणस्सइकाइया असंखेजगुणा बादरनिगोदा असंखेनगुणा बादरापुढवी० असंखे० बादराआउकाइयाअसं० बादरा वाउकाइया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy