________________
पदं-१, उद्देशकः-, द्वारआह- 'सर्वभावानाम्' सर्वे च ते भावाश्च सर्वमावा:-जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाः, तथाहि-अस्यां प्रज्ञापनाया षट्त्रिशत्पदानि तत्र
-प्रज्ञापना बहुवक्तव्यविशेषचरमपरिणामसञ्जभेषुपञ्चसु पदेषुजीवाजीवानांप्रज्ञापना प्रयोगपदे क्रियापदेचाश्रवस्य कायवाङ्गमनःकर्मयोगः (स) आश्रवः' इति वचनात्, कर्मप्रकृतिपदे वन्धस्य समुद्घातपदे केवलिसमुद्घातप्ररूपणायां संवरनिर्जराभोक्षाणांत्रयाणां, शेषेषुतुस्थानादिषु पदेषु क्वचित्कस्यचिदिति, अथवा 'सर्वभावाना मिति द्रव्यक्षेत्रकालभावानाम्, एतद्वयतिरेकेणान्यस्य प्रज्ञापनीयस्याभावात्,
तत्र प्रज्ञापनापदे जीवाजीवद्रव्याणां प्रज्ञापना स्थानपदे जीवाधारस्य क्षेत्रस्य स्थितिपदे नारकादिस्थितिनिरूपणात् कालस्य शेषपदेषु सङ्ख्याज्ञानादिपर्यायव्युत्क्रान्त्युच्छ्वासादीनां भावानामिति । अस्याश्च गाथाया 'अज्झयणमिणं चित्त' मित्यनया गाथया सहाभिसम्बन्धः।।
केवलं येनेयं सत्त्वानुग्रहाय श्रुतसागारादुद्धता असावप्यासन्नतरोपकारित्वादस्मद्विधानां नमस्काराई इति तन्नमस्कारविषयमिदमपान्तराल एवान्यकर्तृक गाथाद्वयम्मू. (३) वायगवरवंसाओ तेवीसइमेण धीरपुरिसेणं।
दुद्धरधरेण मुनिना पुव्वसुयसमिद्धबुद्धीण ।। (प्र०) वृ.वाचकाः-पूर्वविदः वाचकाश्चतेवराश्च वाचकवरा:-वाचकप्रधानाः तेषां वंशः-प्रवाहो वांचकवरवंशः तस्मिन्, सूत्रे च पञ्चमीनिर्देशः प्राकृतत्वात्, प्राकृते हि सर्वासु विभक्तिष्वपि सर्वा विभक्तयो यथायोगं प्रवर्तन्ते, तथा चाह पाणिनिःस्वप्राकृतव्याकरणे-'व्यत्ययोऽप्यासा' मिति, त्रयोविंशतितमेन तथा च सुधर्मस्वामिन आरभ्यभगवानार्यश्यास्त्रयोविंशतिताएव, किंभूतेन ?-धीरपुरुषेण धी:-बुद्धिस्तया राजते इति धीरः धीरश्चासौ पुरुषश्च धीरपुरुषस्तेन, तथा दुर्द्धराणि प्राणातिपातादिनिवृत्तिलक्षणानि पञ्च महाव्रतानि धारयतीति दुर्द्धरधरस्तेन,
तथा मन्यते जगतस्त्रिकालावयामिति मुनिस्तेन, विशिष्टसंवित्समन्वितेनेत्यर्थः, पुनः कथंभूतेनेत्याह-'पूर्वश्रुतसमृद्धबुद्धिना' पूर्वाणिचतत् श्रुतंच पूर्वश्रुतं तेन समृद्धा-वृद्धिमुपगता बुद्धिर्यस्य स पूर्वश्रुतसमृद्धबुद्धिस्तेन, आह-यो वाचकवरवंशान्तर्गतः सपूर्वश्रुतसम्बद्धबुद्धिरेव भवति, ततः किमनेन विशेषणेन?, सत्यमेतत्, किन्तु पूर्वविदोऽपि षट्स्थानपतिता भवन्ति, तथा च चतुर्दशपूर्वविदामपि मतिमधिकृत्य षट्स्थानकं वक्ष्यति, तत आधिक्यप्रदर्शनार्थमिदं विशेषणमित्यदोषः, समिद्धबुद्धीणे त्यत्रणाशब्दस्य हऋस्वत्वं शिशब्दस्य च दीर्घताऽऽर्षत्वात्, मू. (४) सुयसागरा विणेऊण जेण सुयरयणमुत्तमं दिन्नं ।
सीसगणस्स भगवओ तस्स नमो अज्जसामस्स ।। (प्र०) वृ.तथा श्रुतमनर्वाक्पारत्वात् सुभाषितरलयुक्तत्वाच्च सागर इव श्रुतसागरः व्याघ्रादिभिर्गणैस्तद्गुणानुक्ताविति' समासः, तस्मात् 'विणेऊणन्ति' देशीवचनमेतत्, साम्प्रतकालीनपुरुषयोग्यंवीनयित्वेत्यर्थः, येनेदंप्रज्ञापनारूपंश्रुतरत्नमुत्तमं प्रधान, प्राधान्यंचन शेषश्रुतरलापेक्षया, किन्तुस्वरूपतः, दत्तं शिष्यगणायतस्मै, भगवते ज्ञानेश्वर्यधर्मादिमते आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरित्यार्यः स चासौ श्यमाश्च आर्यश्यामः तस्मै, सूत्रे च षष्ठी चतुथ्यर्थे द्रष्टव्या, छठिविभत्तीए मन्नइ चउत्थी' इति वचनात् ॥अधुनोक्तसम्बन्धैवेयं गाथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org