SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ पदं-२, उद्देशकः-, द्वार १०७ जोइसियविमाणावाससयसहस्साणंचउण्हंसामानियसाहस्सीणं चउण्हंअग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणं सत्तण्हं अनीयाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सणं जाव अन्नेसिं च बहूणं जोइसियाणं देवाणं देवीण य आहेवच्छं जाव विहरंति वृ.ज्योतिष्कसूत्रे अद्धकविट्ठगसंठाणसंठियाइं अर्द्ध कपित्थस्य अर्द्धकपित्थंतस्य संस्थान तेन संस्थितानि, अत्राक्षेपपरिहारौ चन्द्रपज्ञप्टिटीकायां सूर्यप्रज्ञप्तिटीकायां चाभिहिताविति ततोऽवधार्यो, 'सव्वफालिहमया' इतिसर्वात्मना स्फटिकमयानि, तथा अभुयद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृष्टा-प्रबलतया सर्वासुदिक्षुप्रसृता या प्रभा-दीप्तिस्तया सितानि-धवलानि अभ्युद्गतोत्सृतप्रभासितानि, तथा विविधानां मणिकनकरलानां या भक्तयोविच्छित्तिविशेषास्ताभिश्चित्राणि आश्चर्यभूतानि विविधमणिकनकभक्तिचित्राणि, 'वाउभ्यविजयवेजयंतीपडागाछत्ताइछत्तकलिया' वातोद्भूता-वायुकम्पिता विजयः--- अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजय इति वैजयन्तीनां पार्श्वकर्णि- कोच्यते तत्प्रधाना वैजयन्त्यः-पताकास्ता एव विजयवर्जितावैजयन्त्यः पताकाःछत्रातिच्छत्राणि-उपर्युपरिस्थितानि छत्राणितैः कलितानि वातोद्भूतविजयवैजयन्तीपताकाछत्रातिछत्रकलितानि तुङ्गानि उच्चानि, तथा गगनतलम् अम्बरतलं अनुलिखद्-अतिलङ्घयत् शिखरं येषां तानि गगनतलानलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि तथा, पञ्जरादुन्मीलितमिव बहिष्कृतमिव पञ्जरोन्मीलितवद्, तथाहि--किल किमपि वस्तु पारात्- वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्ताविनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकनकस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्चमित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, तथानानामणियमयीभिर्दामभिरलङ्क तानि नानामणिमयदामालङ्क तानि, तथा अन्तर्बहिश्च लक्ष्णानि-मसृणानि तथा तपनीयंसुवर्णविशेषस्तन्मय्या रुचिरायाः वालुकायाः-सिकतायाः प्रस्तटः-प्रस्तरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, तथा सुखस्पर्शानि शुभस्पर्शानि वा, __शेषं प्राग्वत् यावत् ‘बहस्सई चंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधाङ्गारकाः, कथंभूता? इत्याह-तत्पतपनीयकनकवर्णा-ईषद्रक्तवर्णाः, तथा ये च ग्रहाउक्तव्यतिरिक्ता ज्योतिश्चक्रेचारंचरन्तिकेतवो येचगतिरतिकाःये चाष्टाविंशतिविधा नक्षत्रदेवगणास्ते सर्वेऽपि नानासंस्थानसंस्थिताः, चशब्दात् तपनीयकनकवर्णाः, तारकाः पञ्चवर्णाः, एतेच सर्वेथपिस्थितलेश्या अवस्खथिततेजोलेश्याकाः तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येकं नामाङ्गेन-स्वस्वनामाङ्गेन प्रकटितं चिह्न मुकुटे येषांते प्रत्येकस्वृनामाङ्गप्रकटितचिह्नमुकुटाः, किमुक्तं भवति?-चन्द्रस्य मुकुटेचन्द्रमण्डललाञ्छनं स्वनामाङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य ग्रहमण्डलं नक्षत्रस्य नक्षत्राकारं तारकस्य तारकाकारमिति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy