________________
जीवाजीवाभिगमउपागसूत्रम् -1-1तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तंच-"तंचकहं वेइज्जइ?,अगिलाए धम्मदेसणाएउ" इति।
श्रोतृणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परंनिश्रेयसपदं, विवक्षिताध्ययनसम्यगावगमतः संयमप्रवृत्या सकलकर्मक्षयोपपत्तेः, ततः प्रयोजनवान् अधिकृताध्ययनप्ररम्भप्रयासः, अभिधेयं जीवाजीवस्वरूपं, तच्चाधिकृताध्ययननाम्नो यथार्थत्वमात्रातप्यवगतं
सम्बन्धश्चद्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यस्तकर्कानुसारिणःप्रति, तद्यथा वचनरूपापन्नं प्रकरणमुपायस्तत्परिज्ञानंचोपेयं, गुरुपर्वक्रमलक्षणः केवल श्रद्धानुसारिणः प्रति, सचैवम्-अर्थतो भगवता वर्द्धमानस्वामिनाजीवाजीवाभिगमउक्तः, सूत्रतो द्वादशस्वङ्गेषु गणधरैः, ततोऽपि मन्दमेधसामनुग्रहायातिशायिमिश्चतुर्दशपूर्वधरैस्तृतीयस्मादङ्मादाकृष्य पृथगध्ययनत्वेन व्यवस्थापितः, अमुमेव सम्बन्धमनुविचिन्त्य स्थविरा भगवन्तः प्रज्ञापितवन्त इति प्रतिपादयिष्यति।
__ इदं च जीवाजीवाभिगमाख्यमध्ययनं सम्यग्ज्ञानहेतुत्वात् अत एव (च) परम्परया मुक्तिपदप्रापकत्वाच्छ्रेयोभूतम् अतो मा भूदत्र विघ्न इति विघ्नविनायकोपशान्तये शिष्याणां मङ्गलबुद्धिपरिग्रहायस्वतोमङ्गलभूतेऽप्यस्मिन् मङ्गलमुपन्यस्यते, तच्चादिमध्यावसानभेदाविधा, तत्रादिमङ्गलम् ‘इह खलुजिनमय'मित्यादि,अत्रजिननामोत्कीर्तनं मङ्गलं, मङ्गलं चनामादिभेदाच्चतुर्धा, तत्रेदंनोआगमतो भावमङ्गलम्, एतच्चाधिकृताध्ययनार्थपार-गमनकारणं, मध्यमङ्गलं द्वीपसमुद्रस्वरूपकथनं, निमित्तशास्त्र हि द्वीपसमुद्रनामग्रहणं परममङ्गलमिति निवेदितं, तथा च द्वीपसमुद्रादिनामग्रहणाधिकारेतत्रोक्तम्-"जो जंपसस्थमत्थं पुच्छइतस्सऽत्थसंपत्ती" इत्यादि
। एतच्चाधिकृताध्ययनार्थस्थिरीकरणहेतुः, अवसानमङ्गलं “दसविहा सव्वजीवा इत्यादिरूपं, सर्वजीवपरिज्ञानहेतुत्वेन माङ्गलिकत्वात्, तच्च शिष्यप्रशिष्यसन्तानाव्यवच्छेदार्थम्, उक्तंच॥१॥ "तंमंगलमाईए माझे पजंतए य सत्थस्स।
पढम सुत्तत्थाविग्धपारगमणाय निद्दिष्टं॥ तस्सेव उ थिज्जत्थं मज्झिमयंअंतिमंपि तस्सेव।
अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स। अथ कथं सकलमेवेदमध्ययनं स्वतो मालभूतम् ?, उच्यते, निर्जरार्थत्वात्तपोवत्, निर्जरार्थता च सम्यगज्ञानरूपत्वात्, उक्तंच॥१॥ “जंअण्णाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं।
तंनाणी तिर्हि गुत्तो खवेइ ऊसासमेत्तेणं ।।" मङ्गलशब्दव्युत्पत्तिश्चेयम्-उख नख वख मखेत्यादि दण्डकधातुः, मजयतेऽधिगम्यते हितमनेनेति मङ्गलम्, अथवामङ्ग इतिधर्मस्याख्यातंलाति-आदत्तेइति मङ्गलं, तथाचास्मिनध्ययने मनसि भावतः परिणमति समुपजायते सुविशुद्धसम्यग्दर्शनादिको भावधर्म, उक्तं च॥१॥ “मंगिजएऽधिगम्मइ जेण हियं तेण मंगलं होइ।
अहवा मंगो धम्मोतं लाति तयं समादत्ते॥" इति। यदिवा मां गालयति-अपनयति भवादिति मङ्गलं, मा भूद्गलो-विघ्नो गालो वा-नाशः शास्त्रस्यास्मादिति मङ्गलं, पृषोदरादित्वादिष्टरूपनिष्पत्ति । तदेवं प्रयोजनादित्रितयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org