SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् २/-/५५ पल्योपमे पल्योपमासङ्ख्येयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे। देवकुरुत्तरकुरुषु जन्मतो जघन्येन त्रीणि पल्योपमानि पल्योपमासङ्ख्येयभागहीनानि उत्कर्षतः परिपूर्णानि त्रीणि पल्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पल्योपमासङ्येयभागः, कियता देशेनोनः पल्योपमासयेयभाग? इति चेदत आह-पल्योपमासङ्ग्येयभागेनोन:, किमुक्तंभवति?-उत्कृष्टपल्योपमासङ्ग्येयभागप्रमाणादायुषोजघन्यमायुः पल्योपमासङ्येयभागन्यूनं, नवरमूनताहेतुः पल्योपमासङ्येयो भागोऽतीवस्तोको द्रष्टव्यः, संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कर्षतश्च तावदेव प्रमाणम् । सम्प्रति देवीस्त्रवक्तव्यतामाह____ अक्षरगमनिका सुगमा तात्पर्यमात्रमुच्यते-देवस्त्रीणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि, तानिच भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि, उत्कर्षतः पञ्चपञ्चाशत्सल्योपमानि, एतानि चेशानदेवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि, उत्कर्षतोऽर्द्धपञ्चामानि सानिचत्वारिपल्पोमानि, एतानिच भवनवासिविशेषासुरकुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुर-कुमारदेवीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपञ्चमानि पल्योपमानि, नागकुमारभवनवासिदेवस्त्राणां जघन्यतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पल्योपमम्, एवं शेषाणां यावत्स्तनितकुमारीणां, व्यन्तरीणा जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं ___ज्योतिषस्त्रीणां जघन्येनाष्टभागपल्योपममुत्कर्षतोऽर्द्धपल्योपमं पञ्चाशतावर्षसहस्रारभ्यधिकम्, अत्रापि विशेषचिन्तायांचन्द्रविमानवासिज्योतिषस्त्रीणांजघन्यतश्चतुर्भागमात्रंपल्योपममुत्कर्षतोऽर्द्धपल्योपमंपञ्चाशता वर्षसहस्रारधिकं, सूर्यविमानवासिज्योतिष्कदेवीनांजघन्यतचतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपञ्चकाभ्यधिकं, ग्रहविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमात्रं पल्योपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पल्योपमं, ताराविमानज्योतिष्कदेवीनांजघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं सामान्यतो वैमानिकदेवीस्त्रीणां जघन्यतः पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यतः पल्योपममुत्कर्षतः सप्त पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः पल्योपमममुत्कर्षतः पञ्चाशत्पल्योपमानि, ईशानकल्पवैमानिकदेवीनांजघन्यतः सातिरेकंपल्योपमुत्कर्षतो नवपल्योपमानि, अत्रापीदंस्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीदेवीनांजघन्यतः सातिरेकं पल्योपममुत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि क्वापि साक्षाद् दृश्यते कचिम्चैवमतिदेशः- "एवंदेवीणंठिईभाणियबा जहा पन्नवणाएजाव ईसाणदेवीण"मिति सम्प्रति स्त्री नैरन्तर्येण स्त्रीत्वमभुञ्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायां सूत्रकृत्तत्कालापेक्षया ये पञ्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह मू. (५६) इत्थी णं भंते ! इस्थिति कालतो केवञ्चिरं होइ ?, गोयमा ! एक्कोणादेसेणं जहन्नेणं एवं समयं उक्कोसं दसुत्तरं पलिओवमसयं पुवकोडिपुहुत्तममहियं । एक्कणादेसेणं जहन्नेणं एक समयं उक्कोसेणं अट्ठारस पलिओवमाई पुव्वकोडीपुहुत्तममहियाई । एक्केणादेसेणं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy