________________
५०८
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/८/३९६
सव्वत्थोवा पढमसमयनेरइया अपढमसमयनेरइया असंखेजगुणा, एतेसि णं भंते ! पढमसमयतिरिजोक्ख० अपढमस० तिरि० जोणि० कतरे० ?, गोयमा! सव्व पढमसमयतिरि० अपढमसमयतिरि० जोणि० अनंत०, मणुयदेव अप्पाबहुयं जहा नेरइयाणं ।
एतेसि णं भंते! पढमस० रइ० पढमस० तिरिक्खाणं पढमस० मणूसाणं पढमसमयदेवाणं अपढमसमयनेरइ० अपढमसमयतिरिक्खजोणि० अपढमसमयमणूसा० अपढमसमयदेवाणं सिद्धाण य कयरे० २ ? गोयमा ! सव्व० पढमस० मणूसा अपढमस० मणु० असं० पढमसमयनेरइ० असं० पढमसमयदेवा असंखे० पढमसमयतिरिक्खजो० असं० अपढमसमयनेर० असं० अपढमस० देवा असंखे० सिद्धा अणं० अपढमस० तिरि० अनंतगुणा ।
सेत्तं नवविहा सव्वजीवा पन्नत्ता ।
बृ. 'अहवे'त्यादि, ' अथवा ' प्रकारान्तरेण नवविधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाप्रथमसमयनैरयिका अप्रथमसमयनैरयिकाः प्रथमसमयतिर्यग्योनिका अप्रथमसमयतिर्यग्योनिकाः प्रथमसमयमनुष्या अप्रथमसमयमनुष्याः प्रथमसमयदेवा अप्रथमसमयदेवाः सिद्धाः || कायस्थितचिन्तायां प्रथमसमयनैरयिकस्य कायस्थितिरेकं समयं, अप्रथमसमयनैरयकस्य जघन्यतो दश वर्षसहस्राणि समयोनानि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि समयोनानि, प्रथमसमयतिर्यग्योनिकस्यैकं समयं, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयनोनमुत्कर्षतो वनस्पतिकालः, प्रथमसमयमनुष्यस्यैकं समयं अप्रथमसमयस्य जघन्यतः क्षुल्लकभवग्रहणं समयोनमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, देवा यथा नैरयिकाः, सिद्धाः साधपर्यवसिताः ।
?
अन्तरचिन्तायां प्रथमसमयनैरयिकस्य जघन्यमन्तरं दशवर्षसहस्राणि अन्तर्मुहूर्त्ताम्यधिकानि, उत्कर्षतो वनस्पतिकालः, अप्रथमसमयनैरयिकस्य जघन्यतोऽन्तरंमन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः प्रथमसमयतिर्यग्योनिकस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयतिर्यग्योनिकस्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकं उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं प्रथमसमयमनुष्यस्य जघन्यतो द्वे क्षुल्लकभवग्रहणे समयोने उत्कर्षतो वनस्पतिकालः, अप्रथमसमयमनुष्य जघन्यतः क्षुल्लकभवग्रहणं समयाधिकमुत्कर्षतो वनस्पतिकालः, प्रथमसमयदेवस्य जघन्यतो दश वर्षसहस्राणि अन्तर्मुहूर्ताभ्यधिकानि उत्कर्षतो वनस्पतिकालः, अप्रथमसमयदेवस् जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः, सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं ।
"
सम्प्रत्यल्पबहुत्वचिन्ता, तत्राल्पबहुत्वान्यत्र चत्वारि, तद्यथा - प्रथमं प्रथमसमयनैरयिकादीनां द्वितीयप्रथमसमयनैरयिकादीनां तृतीयं प्रथमाप्रथमसमयनैरयिकादीनां प्रत्येकं, चतुर्थं सर्वसमुदायेन, तत्र प्रथममिदम् - सर्वस्तोकाः प्रथमसमयमनुष्याः, तेभ्यः प्रथमसमयनैरयिका असङ्घयेयगुणाः, तेभ्यः प्रथमसमयदेवा असह्खयेयगुणाः, तेभ्यः प्रथमसमयतिर्यग्योनिका असङ्घयेयगुणाः, नारकादिशेषगतितरयादागतानामेव प्रथमसमये वर्त्तमानानां प्रथमसमयतिर्यग्योनिकत्वात् ।
द्वितीयमेवम्- सर्वस्तोका अप्रथमसमयमनुष्याः, तेभ्योऽप्रथमसमयनैरयिका असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयदेवा असङ्ख्येयगुणाः, तेभ्योऽप्रथमसमयतिर्यग्योनिका अनन्तगुणाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org