SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ५०० जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/५/३८९ अपज्जवसिए। अत्राणिणो तिविहापं० २०-अनाइए वा अपअवसिए अनाइए वा सपजवसिए साइए वासपज्जवसिए, तत्थ साइए सपज्जवसिएजह० अंतो० उको० अनंत कालं उवलुपुग्गलपरियट्ट देसूर्ण। अंतरं आभिनिबोहियनाणिस्स जह० अंतो० उक्को० अनंतं कालं अवई पुग्गलपरियट्टे देसूर्णएवं सुय० अंतरं० मनपञ्जव०, केवलनाणिणो णत्थिअंतरं, अन्नाणिसाइसपजवसियस्स जह० अंतो० उक्को० छावदि सागरोवमाइं साइरेगाई।अप्पा० सम्वत्थोवा मन० ओहि० असंखे० आभि० सुय० विसेसा० सट्ठाणे दोवितुल्ला केव० अनत० अन्नाणी अनतगुणा। ___ अहवाछब्बिहा सव्वजीवा पण्णतातंजहा-एगिदियाबेदिया तेदियाचउरिदिया पंचेंदिया अनिंदिया । संचिट्ठणांतरा जहा हेट्ठा। अप्पाबहु-सव्वत्थोवा पंचेदियाचउरिदिया विसेसा० तेइंदिया विसेसा० बेदिया विसेसा० एगिंदिया अनतगुणा अनिंदिया अनंतगुणा ॥ वृ. 'तत्ये'त्यादि, तत्र ये ते एवमुक्तवन्तः षड्विधाः सर्वजीवाः प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनः केवलज्ञानिनोऽज्ञानिनश्च। ___सम्प्रत्यमीषांकायस्थितिमाह-'आभिनिबोहियनाणीणं मंते!' इत्यादि, आभिनिबोधिकज्ञानी जघन्येनान्तर्मुहूर्त, सम्यक्त्वकालस्य जघन्यत एवावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, तानि च विजयादिषु वारद्वयादिगमनेन भावनीयानि, एवं श्रुतज्ञानिनोऽपि वक्तव्यं, आभिनिबोधिकश्रुतज्ञानयोः परस्पराविनाभूतत्वात्, 'जत्य आभिनिबोहियणाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोवि एयाई अन्नोन्नभणुगयाइं' इति वचनात्, अवधिज्ञानि जघन्यत एकं समयं, साचैकसमयता मरणतः प्रतिपातेन मिथ्यात्वगमनतोवा विभङ्गज्ञानभावतः प्रतिपत्तव्या, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, तान्याभिनिबोधिकज्ञानवद्भावनीयानि, मनःपर्यवज्ञानी जघन्यत एक समयं, द्वितीय समये मरणतः प्रतिपातात्, उत्कर्षतो देशोना पूर्वकोटी, चारित्रकालस्योत्कर्षतोऽप्येतावन्मात्रत्वात्, केवलज्ञानी साद्यपर्यवसितः।। अज्ञानी त्रिविधः प्रज्ञप्तस्तद्यथा-अनाद्यपर्यवसितः अनादिसपर्यवसितः सादिसपयवसितश्च, तत्रयोऽसौ सादिसपर्यवसितोऽसौजघन्येनान्तर्मुहूर्त, ततऊर्ध्वं कस्यापि सम्यक्त्वकालभतो भूयोऽपि ज्ञानित्वभावात्, उत्कर्षतोऽनन्तं कालं यावदपार्द्ध देशोनं पुद्गलपरावत, ज्ञानित्वात्परिभ्रष्टस्यैतावता कालेन नियमतो भूयोऽपि ज्ञानित्वभावात्।। ____ अन्तरचिन्तायामाभिनिबोधिकज्ञानिनो जघन्येनान्तरमन्तर्मुहूर्त, कस्याप्येतावत्कालेन भूयोऽप्याभिनिबोधिकज्ञानित्वभावात्, उत्कर्षतोऽनन्तकालं यावदपार्द्ध पुद्गल परावर्तदेशोनं, एवं श्रुतज्ञानिनोऽवधिज्ञानिनो मनःपर्यवज्ञानिनश्चान्तरं वक्तव्यं, केवलज्ञानिनः साद्यपर्यवसितत्वान्नास्त्यन्तरं, अज्ञानिनोऽनाद्यपर्यवसितस्यनास्त्यन्तरंअपर्यवसितत्वात्, अनादिसपर्यवसितस्यापि नास्त्यन्तरं भूयस्तभावायोगात्, पुनरज्ञानित्वं हि भवत् सादिसपर्यवसितं भवतिन त्वनादिसपर्यवसितं, सादिसपर्यवसितस्यजघन्यतोऽन्तर्मुहूर्त, तावताकालेन भूयोऽपिकस्याप्यज्ञानित्वप्राप्तेः, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy