________________
जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व० / ३/३८३
अल्पबहुत्वचिन्तायां सर्वस्तोकाः पुरुषवेदकाः कतित्रयेऽप्यल्पत्वात्, स्त्रीवेदकाः सङ्घयेयगुणाः, तिर्यग्गतौ त्रिगुणत्वात् (मनुष्यगतौ सप्तविंशतिगुणत्वात्) देवगतौ द्वात्रिंशद्गुणत्वात्, अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात्, नपुंसकवेदका अनन्तगुणाः, वनस्पतीकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥
मू. (३८४) अहवा चउव्विहा सव्वजीवा पन्नत्ता, तंजहा- चक्खुदंसणी अचक्खुदंसणी अवधिदंसणी केवलिदंसणी ।
चक्खुदंसणी णं भंते! ०?, जह० अंतो० उक्को० सागरोवमसहस्सं सातिरेगं, अचक्खुदंसणी दुविहे पन्नत्ते - अनातीए वा अपज्जवसिए अनाइए वा सपज्जवसिए। ओहिदंसणिस्स जह० एक्क समयं उक्को० दो छावट्ठी सागरोवमाणं साइरेगाओ, केवलदंसणी साइए अपजवसिए || चक्खुदंसणिस्स अंतरं जह० अंतोमु० उक्को० वणस्सतिकालो ।
४९६
अचक्खुदंसणिस्स दुविहस्स नत्थि अंतरं । ओहिदंसनस्स जह० अंतोमु० उक्कोसे० वणस्सइकालो । केवलदंसणिस्स नत्थि अंतरं । अप्पाबहुयं सव्वत्थोवा ओहिंदंसणी चक्खुदंसणी असंखेञ्जगुणा केवलदंसणी अनंतगुणा अचकखुदंसणी अनंतगुणा ।
वृ. ' अहवे' त्यादि, ' अथवा ' प्रकारान्तरेण चतुर्विधाः सर्वजीवाः प्रज्ञप्तास्तद्यथाचक्षुर्दर्शनिनोऽचक्षुर्दर्शनिनोऽवधिदर्शनिनः केवलदर्शनिनः ।
अमीषां कायस्थितमाह-- 'चक्खुदंसणी णं भंते!' इत्यादि, चक्षुर्दर्शनी जघन्यतोऽन्तर्मुहूर्त, अचक्षुर्दर्शनिभ्य उद्धृत्य चक्षुर्दर्शनिषूत्पद्य तावन्तं कालं स्थित्वा पुनरचक्षुर्दर्शनिषु कस्यापि गमनात्, उत्कर्षतः सागरोपमसहस्रं सातिरेकं, अचक्षुर्दर्शनी द्विविधः प्रज्ञप्तस्तद्यथा - अनाद्यपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो भव्यविशेषो यः सेत्स्यति, अवधिदर्शनी जघन्यत एकं समयं अवधिप्रतपत्यनन्तरमेव कस्यापि मरणतो मिथ्यात्वगमनतो दुष्टाध्यवसाय भावतोऽवधिप्रतिपातात्, उत्कर्षतो द्वे षट्षष्टी सागरोपमाणां सातिरेके, तत्रैका षटषष्टि एवं विभङ्गज्ञानी तिर्यक्पञ्चेन्द्रियो मनुष्यो वाऽधः सप्तम्यामुत्पनः, तत्र त्रयस्त्रिंशतं सागरोपमाणि स्थित्वा तत्र च प्रत्यासन्ने उद्वर्त्तनाकाले सम्यकत्वं प्राप्य पुनः परित्यजति ततोऽप्रतिपतितेनैव विभङ्गेन पूर्वकोटयायुष्केषु तिर्यक्षु जातस्ततः पुनरप्यप्रतिपतितविभङ्ग एवाधः सप्तम्यामुत्पन्नः, तत्र च त्रयस्त्रशतं सागरोपमाणि स्थित्वा पनरप्युद्वर्त्तनाकाले प्रत्यासन्ने सम्यक्त्वं प्राप्य पुनः परित्यजति, ततः पुनरप्यप्रतिपतितेनैव विभङ्गेन पूर्वकोटयायुष्केषु तिर्यक्षूपजातो, वेलाद्वयमपि चाविग्रहेणाधः सप्तम्यास्तिर्भूत्पादयितव्यः ।
विग्रहे विभङ्गस्य प्रतिषेधात् उक्तं च- “विभंगनाणी पंचेंदियतिरिक्खजोणिया मणूया य आहारगा नो अनाहारगा" इति, नन्वपान्तराले किमर्थं सम्यक्त्वं प्रतिपाद्यते ?, उच्यते, विभङ्गस्य स्तोककालावस्थायित्वात्, उक्तञ्च - "विभंगनाणी जह० एवं समयं उक्को० तेत्तीसं सागरोवमाई देसूणाए पुव्वकोडीए अमहियाइं "ति, तदनन्तरमप्रतिपतितविभङ्ग एव मनुष्यत्वंप्राप्य सम्यक्त्वपूर्वं संयममासाद्य विजयादिषु वारद्वयमुत्पद्यमानस्य द्वितीया षट्षष्टिर्भावनीया अवधिदर्शनं च विभङ्गेऽवधिज्ञाने च तुल्यमतो द्वेषटषष्टी सागरोपमाणां सातिरेके स्थितिरवधिदर्शनिनः, केवलदर्शनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org