SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् सर्व०/१/३७१ प्रज्ञप्तास्तद्यथा-बानिनश्चअज्ञानिनश्च, ज्ञानमेषामस्तीतिज्ञानिनःन ज्ञानिनोऽज्ञानिनः मिथ्याज्ञानाइत्यर्थ सम्प्रतिकायस्थितिमाह-'नाणीण मित्यादिप्रश्नसूत्रसुगम, भगवानाह-गौतम! ज्ञानी द्विविधः प्रज्ञप्तस्तद्यथा-सादिको वाऽपर्यवसितः,सचकेवली केवलज्ञानस्यसाद्यसपर्यवसितत्वात, सादिकोवासपर्यवसितोमतिज्ञानादिणान्, मतिज्ञानादीनांछद्मस्थिकतया सादिसपर्यवसितत्वात, 'तत्यणमित्यादि, तत्रयोऽसौ सादिकः सपर्यवसितः स जघन्येनान्तर्मुहूर्त, सम्यक्त्वस्य जघन्यत एतावन्मात्रकालत्वात्सम्यक्त्वक्तश्चज्ञानित्वात्, यथोक्तम्-“सम्यग्दृष्टानं मिथ्याटेविपर्यास" इति, उत्कर्षतः षट्षष्टिसागरोपमाणिसातिरेकाणि, सम्यग्दर्शनकालस्याप्युत्कर्षत एतावन्मात्रत्वात्, अप्रतिपतिसम्यक्त्वस्य विजयादिगमनश्रवणात, तथाच माष्यम्॥७॥ "दो बारे विजयाइसु गयस्स तिनिऽखुए अहव ताई। अइरेगं नरभवियं नानाजीवाण सव्वद्धा ।।" 'अन्नामी णं भंते !' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! अज्ञानी त्रिविधः प्रज्ञप्तस्तपथा-अनादिको वाऽपर्यवसितः अनादिकोवासपर्यवसितःसादिको वासपर्यवसितः, तत्रनाथपर्यवसितो यो न जातुचिदपि सिद्धिं गन्ता, अनादिसपर्यवसितो योऽनादिमिथ्याष्टि सम्यक्त्वमासाधाप्रतिपतितसम्यक्त्वएवक्षपकश्रेणिप्रतिपत्स्यते, सादिसपर्यवसितःसम्यग्दृष्टिभूत्वा जातमिथ्याष्टिः, स जघन्येनान्तर्मुहूर्त सम्यक्त्वात् प्रतिपत्य पुनरन्तरर्मुहूर्तेन कस्यापि सम्यग्दर्शनावापतिसम्भवात, उत्कर्षेणानन्तं कालं, अनन्ता उत्सपिण्यवसर्पिण्यः कालतः क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोनं । साम्प्रतमन्तरं प्रतिपादयति-'नाणिस्स णं भंते !' इत्यादि, ज्ञानिनो भदन्त ! अनन्तरं कालतः कियनिरंभवति?, भगवानाह-गौतम! सादिकस्यापर्यवसितस्य नास्त्यन्तरं,अपर्यवसितवेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जधन्यतोऽन्तर्मुहूर्त, एतावता मिथ्यादर्शनकालेनव्यवधानेन भूयोऽपिज्ञानभावात, उत्कर्षेणअनन्तं कालं, अनन्ताउत्सर्पिण्यवसर्पिण्यःकालतःक्षेत्रतोऽपार्द्धपुद्गलपरावर्तदेशोनं, सम्यगध्ठेः सम्यक्त्वाप्रतिपतितस्यैतावन्तं कालं मिथ्यात्वमनुभूय तदनन्तरमवइयं सम्यक्त्वासादनात्। 'अन्नाणिस्सणंमंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! अनाद्यपर्यवसितस्य नास्त्यन्तरं, अपर्यवसितत्वादेव, अनादिसपर्यवसितस्यापि नास्त्यन्तरं अवाप्तकेवलज्ञानस्य प्रतिपाताभावात, सादिसपर्यवसानस्य जघन्येनान्तर्मुहूर्त, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात्, उत्कर्षतः षट्षष्टि सागरोपमाणि सातिरेकाणि, एतावतोऽपि कालादूर्द्ध सम्यग्दर्शनप्रतिपाते सत्यज्ञानाभावात् । अल्पबहुत्वसूत्रं प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह'अहवेत्यादि, अथवा द्विविधाः सर्वजीवाःप्रज्ञप्तास्तद्यथधा-साकारोपयुक्ताश्चअनाकारोपयुक्ताश्च सम्प्रति कायस्थितिमाह-'सागारोवउत्ताणंभंते!' इह छग्रस्था एव सर्वजीवा विवक्षिता न केवलिनोऽपि 'विचित्रत्वात् सूत्रगते रिति द्वयानामपि कायस्थितावन्तरे च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, अन्यथा केवलिनामुपयोगस्य साकारस्यानाकारस्य चैकसामयिकत्वात् कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत।अल्पबहुत्वचिन्तायां सर्वस्तोका अनाकारोपयुक्ताः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy