________________
प्रतिपत्तिः - ९,
४७७ साम्प्रतमेतेषामेकेन्द्रियादिप्रथमसमयानां परस्परमल्पबहुत्वमाह-एएसि णमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसमयपञ्चेन्द्रियाः, अल्पानामेवैकस्मिन् समये तेषामुत्पादात, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, प्रभूतानां तेषामेकस्मिन् समये उत्पादसम्भवात, तेभ्यः प्रथमसमयत्रीन्द्रिया विशेषाधिकाः, प्रभूततराणां तेषामेकस्मिन् समयेउत्पादात्,तेभ्यःप्रथमसमयद्वीन्द्रिया विशेषाधिकाः,प्रभूतानां तेषामेकस्मिन् समये उत्पादात्, तेभ्यः प्रथमसमयैकेन्द्रिया विशेषाधिकाः,इह ये द्वीन्द्रियादिभ्य उद्धृ त्य एकेन्द्रियत्वेनोत्पद्यन्ते त एव प्रथमे वर्तमानाः प्रथमसमयैकेन्द्रिया नान्ये, तेच प्रथमसमयद्वीन्द्रियेभ्यो विशेषाधिका एव नासङ्घयेया नानन्तगुणा इति।
साम्प्रतमप्रथमसमयानामेतेषामल्पबहुत्वाह-'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अप्रथमसमयपञ्चेन्द्रियाः, तेभ्योऽप्रथमसमयचतुरिन्द्रियाविशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रियाविशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, अब युक्तिनवविधप्रतिपत्ती सामान्यतो द्वित्रिचतुष्पञ्चेन्द्रियाणां बहुत्वचिन्तायामवि भावनीया, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतिजीवानामनन्तत्वात्।
साम्प्रतमेकेन्द्रियादीनां प्रत्येकं प्रथमसमयाप्रथमसमयानां परस्परमल्पबहुत्वमभिधित्सुः प्रथमत एकेन्द्रियानां तावदाह-एएसिगंभंते!' इत्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! सर्वस्तोकाः प्रथमसयैकेन्द्रियाः, अल्पानामेवैकस्मिन् समये द्वीन्द्रियादिभ्य आगतानामुत्पादात्, तेभ्योऽप्रथमसमयैकेन्द्रिया अनन्तगुणा वनस्पतीनामनन्तत्वात् । द्वीन्द्रियसूत्रे सर्वस्तोकाः प्रथमसमयद्वीन्द्रिया अप्रथमसमयद्वीन्द्रिया असङ्ख्येयगुणाः, द्वीन्द्रियाणां सर्वसझ्ययाऽप्यसङ्ख्यातत्वात्, एवं त्रिचतुष्पश्चेन्द्रियसूत्राण्यपि वक्तव्यानि।
साम्प्रतमेतेषां दशानामपि परस्परमल्पबहुत्वमाह-एएसिणमित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोकाः प्रथमसमयपश्चेन्द्रियाः, तेभ्यः प्रथमसमयचतुरिन्द्रिया विशेषाधिकाः,तेभ्यःप्रथमसमयत्रीन्द्रियाविशेषाधिकाः, तेभ्यः प्रथमसमयद्वीन्द्रियाविशेषाधिकाः, तेभ्यः प्रथमसयैकेन्द्रिया विशेषाधिकाः, अत्र युक्ति प्रथमाल्पबहुत्ववत्, तेभ्योऽप्रथमसमयपञ्चेन्द्रियाअसङ्ख्येयगुणाः, अप्रथमसमयैकेन्द्रियाहिद्वीन्द्रियादिभ्य उद्धृत्यैकेन्द्रियमवप्रथमसमये वर्तमानास्ते च स्तोका एव, पञ्चेन्द्रियास्त्वप्रथमसमयवर्त्तिनश्चिरकालावस्थायितया गतचतुष्टयेऽप्यतिप्रभूतास्ततोऽसङ्खयेयगुणाः, तेभ्योऽप्रथमसमयचतुरिन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयत्रीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयद्वीन्द्रिया विशेषाधिकाः, तेभ्योऽप्रथमसमयैकन्द्रिया अनन्तगुणाः, अत्र युक्तिद्धितीयाल्पबहुत्ववत् ।
उपसंहारमाह-‘सेत्तं दसविहा संसारसमापना जीवा' । मूलोपसंहारमाह- सेत्तं संसारसमापन्नजीवाभिगमे॥
प्रतिपत्तिः-९ समाप्ता मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जीवाजीवाभिगम सूत्रे नवमप्रतिपत्याः मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org