SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४६८ जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-/३६४ प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवाः पर्याप्तकाः प्रदेशार्थतया निगोदानां स्तोकत्वात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्खयेयगुणाः निगोदानामसङ्खयेयगुणत्वात्, एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः। तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सद्ध्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसद्धयेयगुणाः एकैकबादरपयाप्तनिगोदनिश्रया सङ्ख्याऽतीतानांबादरपर्याप्तनिगोदानामुत्पादात, तेभ्यः सूक्ष्मनिगोदाअपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्यातगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सङ्ग्येयगुणाः, द्रव्यार्थप्रदेशार्थतयासर्वस्तोका बादरनिगोदाः पर्याप्ता द्रव्यार्थतया, तेभ्योबादरनिगोदाअपर्याप्ता सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्योबादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिबादरनिगोदमनन्तानांजीवानां भावात्, तेभ्यो बादरनिगोदजीवाअपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया सद्ध्येयगुणाः अत्रयुक्तिर्निगोदजीवानांद्रव्यार्थतयाचिन्तायामिव,तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पयप्तिभ्यो द्रव्यार्थतया चिन्तितेभ्यो बादरनिगोदजीवाः पर्याप्ताःप्रदेशार्थतयाऽसङ्घयेयगुणाः प्रतिबादरनिगोदपर्याप्तजीवमसञ्जयेयानां लोकाकाशप्रदेशप्रमाणानां प्रदेशानां भावात्, तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयुणाः,तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सद्ध्येयगुणाः, युक्तिस्त्र निगोदजीवानां प्रदेशार्थतया सङ्घयेयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तभ्यः प्रदेशार्थतया चिन्तितेभ्योबादरनिगोदाः पर्याप्ताः प्रदेशार्थतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात्, तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्ख्येयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसङ्घयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सङ्ख्येयगुणाः, अत्र युक्तिर्निगोदानां प्रदेशार्थतया चिन्तायामिव । उपसंहारमाह-'सेत्त'मित्यादि, एते षडविधसंसारसमापनका जीवाः॥ प्रतिपत्तिः-५ समाप्ताः (प्रतिपत्तिः-६ “सप्त विधा") पृ. तदेवमुक्ता षड्विधप्रतिपत्ति, अधुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह मू. (३६५) तत्थजे ते एवमाहसुसत्तविहा संसारसमावन्नगातेएवमाहंसु, तंजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ।। नेरतियस्स ठिती जहन्नेणं दसवाससहस्साइंउक्कोसेणं तेतीसंसागरोवमाई,तिरिक्खजोणियस्स जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि पलिओवमाइं, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणवि, देवाणं ठिती जहा णेरइयाणं, देवीणं जहन्नेणं दसवाससहस्साई उक्कोसेणं पणपन्नपलिओवमाणि।। नेरइयदेवदेवीणं जच्चेव ठिती सच्चेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy