SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४६४ जीवाजीवाभिगमउपाङ्गसूत्रम् ५ /-/ ३६२ प्रतिपाद्यमानं न विरोधभागिति, तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरवनस्तिकायिका अपर्याप्ता अनन्तगुणाः । प्रतिबादरैकैकनिगोदमनन्तानां जीवानां भावात्, तेभ्यः सामान्यतो बादराः पर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत प्रक्षेपात्, तेभ्यो बादरवनस्पतिकायिका अपर्याप्ता असङ्ख्येयगुणाः, एकैकपर्याप्तनिगोदनिश्रयाऽ सङ्घयेयानां बादरनिगोदापर्याप्तानां मुत्पादात्, तेभ्यः सामान्यतो बादरा अपर्याप्ता विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात्, तेभ्यः सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात्, तेभ्यः सूक्ष्म वनस्पतिकायिका अपर्याप्ता असङ्घयेयगुणाः, बादरनिगोदेभ्य सूक्ष्मनिगोदानामपर्याप्तानामप्य-सङ्घयेयगुणत्वात्, ततः सामान्यतः सूक्ष्माअपर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनाम- प्यपर्याप्तानां तत्र प्रक्षेपात् तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः समयेयगुणाः, सूक्ष्मवनस्पति कायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्घयेयगुणाः, सूक्ष्मेष्वप्योघतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्घयेयगुणत्वात् । ततः सामान्यतः सूक्ष्मपर्याप्तेभ्योऽपि सङ्घयेयगुणाः, विशेषाधिकत्वस्य सङ्घयेयगुणत्वबाधनायोगात्, तेभ्यः सामान्यतः सूक्ष्माः पर्याप्तका विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात्, ततः सामान्यतः पर्याप्तापर्याप्तविशेषणरहिताः सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । इह पूर्वं निगोदाः स्थित्यादिभिश्चिन्तितास्ततो निगोदवक्तव्यतामाह मू. (३६३) कतिविहा णं भंते! निओया पन्नत्ता ?, गोयमा ! दुविहा निओया पन्नत्ता, तंजहा - निओयाय निओदजीवा य ॥ निओया णं भंते! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा, पं०, तंजहा - सुहुमनिओयाय बायरनिओया य ॥ सुहुमनिओया णं भंते! कतिविहा पन्नत्ता ?, गोयमा ! दुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगाय । बायरन ओयाविदुविहा पन्नत्ता, तंजहा-पजत्तगा य अपजत्तगा य ।। निओयजीवा णं भंते! कतिविहा पन्नत्ता ?, दुविहा पन्नत्ता - सुहुमनिओदजीवा य बायरनिओयजीवा य । सुहुमनिगोदजीवा दुविहा पं० तं०-पजत्तगाय अपजत्तगा य । बादरनिगोदजीवा दुविहा पन्नत्ता तं०-पजत्तगा य अपजत्तगा य ॥ वृ. 'कतिविहाण' मित्यादि, कतिभेदाः भदन्त ! निगोदाः प्रज्ञप्ताः ? भगवानाह - गौतम ! द्विविधा निगोदाः प्रज्ञप्तास्तद्यथा- निगोदाश्च निगोदजीवाश्च, उभयेषामपि निगोदशब्दवाच्यतया प्रसिद्धत्वात्, तत्र निगोदा - जीवाश्रयविशेषाः निगोदजीवा - विभिन्नतैजसकार्मणा जीवा एव ॥ अधुना निगोदभेदान् पृच्छति - 'निगोया णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनिगोदाश्च बादरनिगोदाश्च तत्र सूक्ष्मनिगोदाः सर्वलोकापन्नाः बादरनिगोदा मूलकन्दादयः । 'सुहुमनिगोयाण' मित्यादि, सूक्ष्मनिगोदा भदन्त ! कतिविधाः प्रज्ञप्ताः ?, भगवानाह - गौतम ! द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्ता अपर्याप्ताश्च, एवं बादरनिगोदविषयमपि सूत्रं वक्तव्यं तदेवमुक्ता निगोदाः, अधुना निगोदजीवानधिकृत्य भेदप्रश्नसूत्रमाह- 'निगोयजीवा णं भंते!' इत्यादि सुगमं, भगवानाह - गौतम ! निगोदजीवा द्विविधाः प्रज्ञप्तास्तद्यथा - सूक्ष्मनिगोदजीवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy