________________
४५८
जीवाजीवाभिगमउपाङ्गसूत्रम् ५/-३५९
मू. (३५९) अंतोमुत्तकालो होई अपजत्तगाण सव्वेसि ।। पजत्तबायरस्स य बायरतसकाइयस्सावि।। एतेसिं ठिई सागरोवसमतपुहत्तं साइरेगं मू. (३६०) तेउस्स संख राई दिया दुविहाणिओए मुहुत्तमद्धंतु।
सेसाणं संखेजा वाससहस्सा य सव्वेसि ।। वृ. 'बायरेणंभंते!' इत्यादिप्रश्नसूत्रं, पाठसिद्धं, भगवानाहे-गौतम! जघन्यतोऽन्तर्मुहूर्त मुत्कर्षतोऽसङ्ख्येयं कालं, तमेवासङ्ख्येयं कालं काल क्षेत्राभ्यां हुरुपपति- 'असंखेज्जाओ उसप्पिणी०' अस्यव्याख्या प्राग्वत्' बादरपृथ्वीकाये सूत्रे जघन्यतोऽन्तर्मुहूर्त मुत्कर्षताः सप्तातिः सागरापमकोटिकोट्यः एवं बादरप्यकायिक बादरतेजस्कायिकबादर वायु कायिका नामपि, सामान्यतो बादरवनस्पति कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽसङ्ख्येयं कालं तमेव कालक्षेत्राभ्यां निउपयति-असंख्येय उत्सर्पिण्यवसणिण्यः कालतः क्षेत्रतोऽगुलस्यासंख्येय भागः
प्रत्येकबादरवनस्पतिकायिकसूत्रं बादरपृथ्वीकायिकवत्, सामान्यतो निगोदसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं, तस्यैव कालक्षेत्राभ्यां निरूपणं करोति-अनन्ता उत्सर्पिण्यवसर्पिण्यः, एषाकालतःप्ररूपणा, क्षेत्रतोऽर्द्धतृतीयाः पुद्गलपरावत्ता बादरनिगोदसूत्रं बादरपृथ्वीकायिकवत् । बादरत्रसकायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो वे सागरोपमसहस्र सङ्ख्येयवर्षाभ्यधिके । साम्प्रतमेतेषामेवापर्याप्तानां कायस्थितिं निरूपयन सूत्रदशकमाह___'बायरअपनत्तए णं भंते ! बायरअपज्जत्तिए कालतो' इत्यादि सर्वत्र जघन्येनोत्कर्षण चान्तर्मुहूर्तम्। अधुनैतेषामेव पर्याप्तानां कायस्थितमाह--'बायरपज्जत्तएणंभंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्त, तद्भावना प्राग्वत्, उत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तत ऊर्ध्वमवश्यं बादरस्य सतः पर्याप्तलब्धिविच्युतेः।।
बादरपृथिवीकायिकपर्याप्तसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सङ्घयेयानि वर्षसहनाणि, ततऊर्ध्वंतथास्वाभाव्या बादरपृथिवीकायस्य सतः पर्याप्तिलब्धिभ्रंशात् । एवमप्कायसूत्रमपि वक्तव्यं, तेजस्कायसूत्रे जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सङ्घयेयानि रात्रन्दिवानि, तेजस्कायिकस्य हि उत्कृष्टा भवस्थिति त्रीणि रात्रिन्दिवानि, उत्कृष्टस्थितिकस्य पर्याप्तभवा निरन्तरं कतिपया एवेते सङ्ख्येयान्येव रात्रन्दिवानि।
वायुकायिकसामान्यबादरवनस्पतिकायप्रत्येकबादरवनस्पतिकायसूत्राण्यपि बादरपर्याप्तपृथिवीकायसूत्रवत् । सामान्यतो निगोदपर्याप्तसूत्रेचजघन्यत उष्कर्षतश्चान्तर्मुहूर्त, बादरत्रसकायपर्याप्तसूत्रं जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतः सागरोपमशतपृथक्त्वं सातिरेकं, तच्च नं रयिकतिर्यग्मनुष्यदेवभवभ्रमणेन पूरियमतव्यम् । साम्प्रतमन्तरं प्रतिपिपादयिषुराह
मू.(३६१) अंतरंबायरस्स बायरवनस्सतिस्सनिओयस्स बायरनिओयस्स एतेसिंचउण्हवि पुढविकालो जाव असंखेजा लोया, सेसाणं वणस्सतिकालो । एवं पञ्जत्तगाणं अपञ्जत्त-गाणवि अंतरं, ओहे य बायरतरु ओघनिओए बायरनिओए यकालमसंखेनंअंतरंसेसाणवणस्सतिकालो
वृ. 'बादरस्स णं भंते ! अंतरं कालतो' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्तमुत्कर्षतोऽसङ्खयेयं कालं, तमेव कालक्षेत्राभ्यां निरूपयति-असङ्घयेया उत्सर्पिण्यवसर्पिण्यःकालतः क्षेत्रतोऽसद्धयेया लोकाः, यदेव हि सूक्ष्मस्यसतः कायस्थितिपरिमाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org