SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४४४ जीवाजीवाभिगमउपाङ्गसूत्रम् ३/वै०-२/३३९ वृ.सम्प्रतिकामभोगप्रतिपादनार्थमाह-'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त! कल्पयोः कीशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेदयमानाविहरन्ति?, भगवानाह-गौतम ! इटान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् स्पर्शान् प्रत्यनुभवन्तो विहरन्ति, एवं यावद् ग्रैवेयकदेवाः, अनुत्तरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् । मू. (३४०)ठिती सव्वेसिंभाणियचा, देवित्ताएवि, अनंतरंचयंति चइताजेजहिं गच्छति तंभाणियव्वं ।। वृ.अधुनास्थितिप्रतिपादनार्थमाह- सोहम्मगदेवाण'मित्यादि, सौधर्मकदेवानां भदन्त कियन्तंकालं स्थितिप्रज्ञप्ता ?, भगवानाह-गौतम! जघन्यतएकंपल्योपममुत्कर्षतोद्वेसागरोपमे, एवमीशानेजघन्यतएकं सातिरेक पल्योपममुत्कर्षतो द्वेसातिरेके सागरोपमे, सनत्कुमारेजघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्कर्षतः सातिरेकाणि सप्त सागरोपमाणि, ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सोगर०लान्तके जघन्यतो दशसाग० उत्कर्षतश्चतुर्दश साग० महाशुक्र जघन्यतश्चतुर्दश साग० उत्कर्षतः सप्तदश, सहसारे जघन्यतः सप्तदश साग० उत्कर्षतोऽष्टादश, आनतकल्पेजघन्यतोऽटादश साग० उत्कर्षत एकोनविंशति, प्राणते जघन्यत एकोनविंशति साग० उत्कर्षतो विंशति, आरणे जघन्यतो विंशति सागरोपमाणिउत्कर्षत एकविंशति अच्युते जघन्यत एकविंशति सागरोपमाणिउत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनाधस्तनप्रैवेयकप्रस्तटेजघन्यतो द्वाविंशतिसाग० उत्कर्षतस्त्रयोविंशति अघस्तनमध्यमग्रैवेयकप्रस्तटे जघन्यतस्त्रयोविंशति साग० उत्कर्षतश्चतुर्विंशति, अधस्तनोपरितनौवेयकप्रस्तटे जघन्यतश्चतुर्विंशति साग० उत्कर्षतः पञ्चविंशति, मध्यमाधस्तनौवेयकप्रस्तटेजघन्यतः पञ्चविंशति साग० उत्कर्षतः षड्विंशति, मध्यममध्य-मौवेयकप्रस्तटेजघन्यतः षडविंशतिसाग० उत्कर्षतः सप्तविंशति, मध्यमोपरितन-प्रैवेयकप्रस्तटेजघन्यतः सप्तविंशति साग० उत्कर्षतोऽष्टविंशति, उपरितनाधस्तन-प्रैवेयकप्रस्तटेजघन्यतोऽष्टाविंशति साग०उत्कर्षत एकोनत्रिंशत्, उपरितनमध्यम- ग्रैवेयकप्रस्तटे जघन्यत एकोनत्रिंशत्साग० उत्कर्षतस्त्रिंशत, उपरितनोपरितनौवेयकप्रस्तटे जघन्यतस्त्रिंशत्साग० उत्कर्षत एकत्रिंशत् । विजयवैजयन्तजयन्तापराजितेषुजघन्यतएकत्रिंशत्सागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत, सर्वार्थसिद्धे महाविमानेऽजघन्योत्कर्षतस्विंयस्त्रशत्सागरोपमाणि। सम्प्रत्युद्वर्तनामाह-'सोहम्मगदेवाण'मित्यादि, सौर्मकदेवा भदन्त! अनन्तरं अव्यवधानेन च्यवित्वा कव गच्छन्ति ?, एतदेव व्याचष्टे-कोत्पद्यन्ते ?, किं नैरयिकेषु गच्छन्ति यावद्देवेषु गच्छन्ति ?, भगवानाह-गौतम ! 'नो नेरइएसु उववजंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रन्त्याख्यपदे तथा वक्तव्यं । एष च सङक्षेपार्थ-बादरपर्याप्तेषु पृथिव्यबवनस्पतिषु स्यार्पतगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येषुच सङ्घयातवर्षायुष्केषु, एवमीशानदेवा अपि, सनत्कुमारदायः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुष्केषुनैकेन्द्रियेष्वपि, आनतादयो यावदनुत्तरोपपातिका न तिर्यपञ्चेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु ।।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy