SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, जो० ४१९ परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानांचत्वारि सहस्राणि, पश्चिमेन वृषभरूपधारिणांदेवानां चत्वारि सहस्राणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना चन्द्रादिविमानानितथाजगत्स्वाभाव्यानिरालम्बनान्येववहन्त्यवतिष्ठन्ते, केवलमभियोगिका देवास्ते तथाविधनामकर्मोदयशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमानाःप्रमोदभृतः सततवहनशीलेषुविमानेष्वधः स्थित्वा केचित्सिंहरूपाणि केचिद्गजरूपाणि केचिद्वृषभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं यथा हि कोऽपि तथाविधाभियोग्यनाम- कर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म नामकसमक्ष प्रमुदितः करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानांहीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यनमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सङ्ग्रहणिगाथे॥१॥ “सोलस देवसहस्सा वहति चंदेसु चेव सूरेसु । __ अद्वेव सहस्सारं एकदमि गहविमाणे॥ ॥२॥ चत्तारि सहस्साइंनक्खत्तंमि य हवंति एकेके। दो चेव सहस्साई तारारूवेक्कमेक्कमि ॥ कवचित्सिंहादीनांवर्णनंश्यते तद्बहुषुपुस्तकेषुन इष्टमित्युपेक्षितं, अवश्यं चेत्तद्वयाख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीकां जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्वयाख्यानस्य कृतत्वात् ।। मू. (३१६) एतेसि णं भंते चंदिमसूरियगहगणनक्खत्ततारालवाणं कयरे कयरेहितो सिग्धगती वा मंदगती वा?, गोयमा! चंदेहितो सूरा सिग्धगती सूरेहितो गहा सिग्घगति गहेहितो नक्खत्ता सिग्धगती नक्खत्तेहिंतो तारा सिग्धगती, सव्वप्पगतीचंदा सवसिग्घगतीओ तारारूवे वृ. 'एएसिण मित्यादि, एतेषां चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भगवानाह-गौतम ! चन्द्रेभ्यः सूर्या शीघ्रगतयः सूर्येभ्योग्रहाः शीघ्रगतयःग्रहेभ्यो नक्षत्रामिशीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हानहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात्, एतच्च सविस्तरं चन्द्रप्रज्ञप्तीसूर्यप्रज्ञप्तौ भावितमिति ततोऽवधार्य, एवंचसर्वमन्दगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः मू. (३१७) एएसिणं भंते! चंदिमजावतारारूवाणंकयरे २ हितो अप्पिडियावा महिड्डिया वा?, गोयमा ! तारारूवेहितो णक्खत्ता महिड्डीया नक्खत्तेहिंतो गहा महिड्डीया गहेहितो सूर। महिद्दीया सूरेहितो चंदा महिडीया, सब्बप्पष्टिया तारारूवा सव्वमहिड्डीया चंदा ।। वृ.'एएसि णमित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्दधिकाः । भगवानाह--गौतम ! तारकेभ्यो नक्षत्राणि For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy