SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ - प्रतिपत्तिः-३, दीव० परिक्षेपादिवक्तव्यता प्राग्वद् यावजीवोपपातसूत्रम् ।। सम्प्रति नामनिमित्तमभिधिसुराह-'से केण्डेण'मित्यादि,अथकेनार्थेन-केन कारणेन भदन्त! एवमुच्यते-नन्दीश्वरवरोद्वीपोनन्दीश्वरवरो द्वीपः ? इति, भगवानाह-गौतम ! नन्दीश्वरवरे द्वीपे बहवः 'खुड्डाखुड्डियाओ वावीओ' इत्यादि प्रागुक्तं सर्वं तावद्वक्तव्यं यावत् 'वाणमन्तरा देवा देवीओ य आसयंति सयंति जाव विहरंति' नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः पर्वतकेष्वासनानि गृहाणिगृहकेष्वासनानि मंडपका मंडपकेषु शिलापट्टकाः सर्वात्मना वज्रमयाः, शेषं तथैव । ___ 'अदुत्तरंचणंगोयमा!' इत्यादि, अथान्यद् गौतम! नन्दीश्वरवरे चत्वारो दिशः समाहृताश्चतुर्दिक तस्मिन् चक्रवालविष्कम्भेन मध्यदेशभागे एकैकस्यां दिशि एकैकभावेन चत्वारोऽअनपर्वताः प्रज्ञप्ताः, तद्यथा-वेण-पूर्वस्यां दिशि, एवं पश्चिमायां दक्षिणस्यामुत्तरस्याम् । ___ 'तेणमित्यादि, ते अञ्जनपर्वताश्चतुरशीतिर्योजनसहस्राण्यर्द्धमुच्चैस्त्वेन एकं योजनसह समुद्वेधेन मूले सातिरेकाणि दश योजनसहस्राणि विष्कम्भेन धरणितलेदशयोजनसहस्राण्यायामविष्कम्भेन तदनन्तरं च मात्रया परिहीयमानाः परिहीयमाना उपर्येकैकं योजनसहनामायामविष्कम्भेनमूले एकत्रिंशद्योजनसहस्राणिषट्त्रयोविंशानियोजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेणधरणितले एकत्रिंशयोजनसहमणिषट्त्रयोविंशानियोजनशतानि देशोनानि परिक्षेपेण उपरि त्रीणि योजनसहस्राणि एकंच द्वाषष्टं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, तोत मूले विस्तीर्णा मध्ये संक्षिप्ता उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वात्मना 'अअनमयाः' अञ्जनरलात्मकाः अच्छा जाव पडिलवा' इति प्राग्वत् प्रत्येकं २ पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं २ वनषण्डपरिक्षिप्ताः पद्मवरवेदिकावनषण्डवर्णनं प्राग्वत्। 'तेसिण'मित्यादि, तेषामञ्जनपर्वतानां प्रत्येकं प्रत्येकमुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य सेजहानामए आलिंगपुक्खरेइवा' इत्यादिवर्णनंजम्बूद्वीपजगत्याउपरितनभागस्येव तावद्वक्तव्यं यावत् 'तत्थ णंबहवे वानमंतरा देवा देवीओय आसयंति सयंतिजाव विहरंति'। "तेसिण'मित्यादि, तेषांबहुसमरमणीयानां भूमिभागानांबहुमध्यदेशभागे प्रत्येकं प्रत्येक सिद्धायतनंप्रज्ञप्तं, तानिच सिद्धायतनानि प्रत्येकं प्रत्येकमेकंयोजनशतमायामेन पञ्चाशद्योजनानि विष्कम्भेन द्विसप्ततिर्योजनानि ऊर्द्धमुच्चैस्त्वेन, अनेकस्तम्भशतसन्निविष्टानीत्यादि तद्वर्णन विजयदेवसुधर्मसभावद्वक्तव्यम् ॥ 'तेसि णमित्यादि, तेषां सिद्धायतनानां प्रत्येकं 'चतुर्दिशि' चतसृषु दिक्षु, एकैकस्यां दिशि एकैकभावेन, चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-पूर्वेण-पूर्वस्याम्, एवं दक्षिणस्या पश्चिमायामुत्तरस्यां, तत्र पूर्वस्यां दिशि द्वारं देवद्वारं, देवनामकस्य तदधिपतेस्तत्र भावात्, एवं दक्षिणस्यामसुरद्वारं पश्चिमायां नागद्वारमुत्तरस्यां सुवर्णद्वारम्। 'तत्थे त्यादि, तत्र तेषुचतुर्बुद्वारेषु यथाक्रमंचत्वारो देवामहर्द्धिका यावत्पल्योपमस्थितयः परिवसन्ति, तद्यथा-देव इत्यादि पूर्ववत्, पूर्वद्वारे देवनामा दक्षिणद्वारेऽसुरनामा पश्चिमद्वारे नागनामा उत्तरद्वारे सुवर्णनामा ॥ तेणंदारा' इत्यादि, तानि द्वाराणिषोडश योजनानि प्रत्येकमूर्द्धमुच्चैस्त्वेनाष्टौ योजनानि विष्कम्भतः, तावइयंचेव'त्ति तावदेव-अष्टावेव योजनानीतिभावः प्रवेशेन 'सेयावरकणगथूभियागा ईहामियउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy