________________
प्रतिपत्तिः - ३, दीव०
वृ. 'से ण' मित्यादि, स पुष्करवरद्वीप एकया पद्मवरवेदिकयाऽष्टजनोच्छ्रयया जगत्युपरिभाविन्येति गम्यते, एकेन वनषण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, द्वयोरपि वर्णकः पूर्ववत् ।। अधुना द्वारवक्तव्यतामाह-- 'पुक्खरवरस्स ण' मित्यादि, पुष्करवरद्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह - गो० चत्वारि द्वाराणि प्रज्ञप्तानि तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च । 'कहि णं भंते!' इत्यादि, क भदन्त ! पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह - गो० पुष्कवरद्वीपपूर्वार्द्धपर्यन्ते पुष्करोदस्य समुद्रस्य पश्चिमदिशि अत्र पुष्करवरद्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं, तत्र जम्बूद्वीपविजयद्वारवदविशेषण वक्तव्यं, नवरं राजधानी अन्यस्मिन् पुष्करवर द्वीपे वक्तव्या । एवं वैजयन्तादिसूत्राण्यणि भा० सर्वत्र राजधानी अन्यस्मिन् पुष्करवरद्वीपे मू. (२३८) अडाल सयसहस्सा बावीसं खलु भवे सहस्साइं । अगुणुत्तरा य चउरो दारंतर पुक्खरवरस्स ।।
वृ. सम्प्रति द्वाराणां परस्परमन्तरमाह - 'पुक्खरवरदीवस्स ण 'मित्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! अष्टचत्वारिंशद् योजनशतसहस्राणि द्वाविंशतिर्योजनसहस्राणि चत्वारि योजनशतानि एकोनसप्ततानि द्वारस्य द्वारस्य च परस्परमबाधयाऽन्तरपरिमाणं, चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलनेऽष्टादश योजनानि तानि पुष्करवरद्वीपपरिमाणाद् १९२८९८९४ इत्येवंरूपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम्-एका योजनकोटी द्विनवति शतसहस्राणि एकोननवति सहस्राणि अष्टौ शतानि षट्सप्तत्यधिकानि १९२८९८७६, तेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमामं ४८२२४६९ ।
३६३
मू. (२३९) पदेसा दोण्हवि पुट्ठा, जीवा दोसु भाणियव्वा ।। से केणद्वेणं भंते! एवं वुच्चति पुक्खरवरदीवे २ ? गो० ! पुक्खरवरे णं दीवे तत्थ २ देसे तहिं २ बहवे पउमरुक्खा पउमवनसंडा निच्चं कुसुमिता जाव चिट्ठति, पउममहापउमरुक्खे एत्य णं पउमपुंडरीया नामं दुवे देवा महिड्डिया जाव पनिओवमद्वितीया परिवसंति, सेतेणद्वेगं गोयमा ! एवं वुञ्चति पुक्खरवरदीवे २ जाव निचे । पुक्खरवरे णं भंते! दीवे केवइया चंदा पभासिंसु वा ३ ?, एवं पुच्छा
वृं. 'पुक्खरवरदीवस्स णं भंते! दीवस्स पएसु पुक्खरवरसमुद्दं पुट्ठा ? ' इत्यादि सूत्रचतुष्टयं प्राग्वत् ॥ सम्प्रति नामनिमित्तप्रतिपादनार्थमाह-'से केणट्टेण 'मत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते पुष्करवरद्वीपः २ १ इति, भगवानाह - गौतम ! पुष्करवरद्वीपे तत्र तत्र देशे तस्य देशस्य तत्र २ प्रदेशे बहवः पद्मवृक्षाः, पद्मानि अतिविशालतया वृक्षा इव पद्मवृक्षाः, पद्मखण्डाःपद्मवनानि, खण्डवनयोर्विशेषः प्राग्वत्, 'निच्चं कुसुमिया' इत्यादि विशेषणजातं प्राग्वत् । तथा पूर्वार्द्धे उत्तरकुरुषु यः पद्मवृक्षः पश्चिमार्द्धे उत्तरकुरुषु यो महापद्मवृक्षस्तयोरत्र पुष्करवरद्वीपे यथाक्रमं पद्मपुण्डरीकौ द्वौ देवी महर्द्धिकी यावत्पल्योपमस्थितिकी यथाक्रमं पूर्वाद्धपरार्द्धाधिपती परिवसतः, तथा चोक्तम्
119 11
"पउमे य महापउमे रुक्खा उत्तरकुरूसु जंबुसमा । एए वसंति सुरा पउमे तह पुंडरीए य ।।"
पद्मं च पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरो द्वीपः 'से एएणट्टेण' मित्याद्युप
संहारवाक्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org