SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्ति: - ३, दीव० ३६१ नाम द्वारं प्रज्ञप्तं, एवं विजयद्वारवक्तव्यता पूर्वानुसारेण वक्तव्या, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे ! वैजयनन्तद्वारप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवरद्वीपदक्षिणार्द्धस्योत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञतं, एवं जम्बूद्वीपगतवैजयन्तद्वारवद्वक्तव्यं, नवरं राजधानी अन्यस्मिन् कालोदे समुद्रे । जयन्तद्वारप्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! कालोदसमुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वतः शीताया महानद्या उपर्यत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तं, एतदपि जम्बूद्वीपगतजयन्तद्वारवत्, नवं राजधानी अन्यस्मिन् कालोदे समुद्रे । अपराजितद्वारप्रश्नसूत्रमपि सुगमं, भगवानाह - गौतम ! कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र कालोदसमुद्रस्यापरिजातं नाम द्वारं प्रज्ञप्तं, तदपि जम्बूद्वीपगतापराजितद्वारवत् नवरं राजधानी अन्यस्मिन् कालोदसमुद्रे || सम्प्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराह'कालोयस्स णं भंते!' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - यू. (२२९) बावीस सयसहस्सा बानउति खलु भवे सहस्साई । छच्च सया बायाला दारंतर तिन्नि कोसा य ॥ वृ. गौतम ! द्वाविंशतिर्योजनशतसहस्राणि द्विनवति सहस्राणि षड् योजनशतानि षट्चत्वारिंशदधिकानि त्रयश्च क्रोश द्वारस्य द्वारस्य परस्परमबाधयाऽन्तरं प्रज्ञप्तं, तथाहि - चतुर्णामपि द्वाराणामेकत्र पृयुत्वमीलनेऽष्टादश योजनानि कालोदसमुद्रपरिरयपरिमाणाद् ९१७०६०५ इत्येवंरूपपात् शोध्यन्ते, शोधितेषु च तेषु जातमिदम् - एकनवतिर्लक्षाः सप्तति सहस्राणि पञ्च शतानि सप्ताशीत्यधिकानि ९१७०५८७ च तेषां चतुर्भिर्भागे हते लब्धं यथोक्तं द्वाराणां परस्परमन्तरपरिमाणं २२९२६४६ क्रोशः ३, उक्तञ्च || 9 || "छायाला छच्च सया बानउय सहस्स लक्ख बावीसं । कोसा य तिन्नि दारंतरं तु कालोयहिस्स भवे ॥ मू. (२३०) दाररस य २ अबाहाए अंतरे पन्नत्ते । कालोदस्स णं भंते! समुद्दस्स पएसा पुक्खरवरदीव० तहेव, एवं पुक्खरवरदीवस्सवि जीवा उद्दाइत्ता २ तहेव भाणियव्वं ॥ से केणद्वेणं भंते! एवं वृच्छति कालोए समुद्दे २ ?, गोयमा ! कालोयस्स णं समुद्दस्स उदके आसले मासले पेसले कालए मासरासिवण्णाभे पगतीए उदगरसेणं पन्नत्ते, कालमहाकाला एत्य दुवे देवा महिड्डिया जाव पनिओवमद्वितीया परिवसंति, से तेणट्टेणं गोयमा ! जाव निचे । कालोए णं भंते! समुद्दे कति चंदा पभासिंसु वा ३ ? पुच्छा, गोयमा ! कालोए णं समुद्दे बायालीसं चंदा पभासेंसु वा ३ वृ. 'कालोयस्स णं भंते! समुहस्स पएसा' इत्यादि सूत्रचतुष्टयं पूर्ववद्भावनीयम् ॥ नामान्वर्थमभिधित्सुराह - ' से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते कालोदः समुद्रः कालोदः समुद्रः ? इति, भगावनाह - गौतम ! कालोदस्य समुद्रस्योदकं 'आसलम्' आस्वाद्यम् उदकरसत्वात् मांसलं गुरुधर्मकत्वात् पेशलं आस्वादमनोज्ञत्वात् 'कालं' कृष्णम्, एतदेवोपमया प्रतिपादयति- माषराशिवर्णाभं, उक्तञ्च - "पगईए उदगरसं कालोए उदग मासरासिनिभं इति, ततः कालमुदकं यस्यासौ कालोदः, तथा कालमहाकाली च तत्र द्वौ देवौ पूर्वार्द्धपश्चिमार्द्धाधिपती For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy