SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दीव० ३५९ एकचत्वारिंशल्लक्षा दश सहस्राणि नव शतानि त्रिचत्वारिंशदधिकानि ४११०९४३, एतेषां चतुर्भिर्भागे हृते लब्धं यथोक्तं द्वाराणां परस्परमन्तरम्, उक्तञ्च- ॥१॥ "पणतीसा सत्त सया सत्तावीसा सहस्स दस लक्खा । धायइसंडे दारंतरं तु अवरं च कोसतियं ॥” 'धायइडस्स णं भंते! दीवस्स पएसा' इत्यादीनि चत्वारि सूत्राणि प्राग्वद्भावनीयानि 'सेकेणणं भंते!' इत्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते- धातकीषण्डो द्वीपो धातकीखण्डो द्वीप: ? इति, भगवानाह - धातकीषण्डे द्वीपे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो धातकीवृक्षा बहवो धातकीवनषण्डा बहूनि घातकीवनानि, वनषण्डयोः प्रतिविशेषः प्रागेवोक्तः, 'निच्चंकुसुमिया' इत्यादि प्राग्वत्, 'धायइमहाधायइरुक्खेसु एत्य' मित्यादि पूर्वार्द्ध उत्तरकुरुषु नीलवद्गिरिसमीपे धातकीनामवृक्षोऽवतिष्ठते, पश्चिमार्द्ध उत्तरकुरुषु नीलवद्गिरसमीपे महाधातकीनामवृक्षोऽवतिष्ठते, तौ च प्रमाणादिना जम्बूवृक्षवद्वेदितव्यौ, तयोरत्र धातकीषण्डे द्वीपे यथाक्रमं सुदर्शनप्रियदर्शनी द्वौ देवी यावत्पल्योपमस्थितिकी परिवसतः, ततो धातकीषण्डोपलक्षितो द्वीपो धातकीषण्डद्वीपः, तथा चाह-- 'से एएणट्टेण' मित्यादि गतार्थं सम्प्रति चन्द्रादिवक्तव्यतामाह- 'धायइसंडे णं भंते ! दीवे कति चंदा पभासिंसु' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - मू. (२२५) चउवीसं ससिरविणो नक्खत्त सता य तिनि छत्तीसा । एगं च गहसहस्सं छप्पन्नं धायईसंडे ॥ मू. (२२६) अहेव सयसहस्सा तिन्नि सहस्साइं सत्त य सयाई । धायइसंडे दीवे तारागण कोडिकोडीणं ॥ सोमेंसु वा ३ ॥ मू. (२२७) दृ. गौतम ! धातकीषण्डे द्वादश चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, द्वादश सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, त्रीणि नक्षत्रशतानि षट्त्रिंशानि योगं चन्द्रमसा सूर्येण च सार्द्ध युक्तवन्तो युञ्जन्ति योक्ष्यन्ति तत्र त्रीणि षट्त्रिंशानि नक्षत्राणां शतानि, एकैकस्य शशिनः परिवारेऽष्टाविंशतेर्नक्षत्राणां भावात्, तथा एकं षडपश्चाशदधिकं महाग्रहसहस्रं चारं चरितवन्तश्चरन्ति चरिष्यन्ति । एकैकस्य शशिनः परिवारेऽष्टाशीतेर्महाग्रहामां भावात् अष्टौ शतसहस्राणि त्रीणि सहस्राणि सप्त शतानि तारागणकोटीकोटीनां शोभितवन्तः शोभन्ते शोभयिष्यन्ते । एतदपि एकशशिनः तारापरिमाणं द्वादशभिर्गुणयित्वा भावनीयं, उक्तं च"बारस चंदा सूरा नक्खत्तसया य तिन्नि छत्तीसा । 119 11 एगं च गहसहस्सं छप्पन्नं छप्पन्नं धायईसंडे ॥ अट्ठेव सयसहस्सा तिनि सहस्सा य सत्त य सया उ । धायइसंडे दीवे तारागणकोडिकोडीओ ॥ ॥२॥ सम्प्रति कालोदसमुद्रवक्तव्यतामाह मू. (२२८) धायइसंडं णं दीवं कालोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy