SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् ३ / दीव०/२०० वृ. 'लवणस्स णं भंते! समुद्दस्स पदेसा' इत्यादि सूत्रचतुष्टयं प्राग्वद्भावनीयम् ।। सम्प्रति लवणसमुद्रनामान्वर्थ पृच्छति - 'सेकेणट्टेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ? इति, भगवानाह - गौतम ! लवणस्य समुद्रस्य उदकः 'आविलम्' अविमलमस्वच्छं प्रकृत्या 'रइलं' रजोवत्, जलवृद्धिहानिभ्यां पबहुलमिति भावः, लवणं सान्निपाकरसोपेतत्वाल्लिन्द्रं गोवराक्ष (ख्य) रसविशेषकलितत्वात्, 'क्षारं' तीक्ष्णं लवणरसविशेषवत्वात्, 'कटुकं' कटुकरसोपेतत्वात्, अत एवोपद्रवव्रातादपेयं, केषामपेयम् ? - चतुष्पदमृगपक्षसरीसृपाणां नान्यत्र 'तद्योनिकेभ्यः' लवणसमुद्रयोनिकेभ्यः सत्वेभ्यस्तेषां पेयमिति भावः । ३३२ तद्योनिकतया तेषां तदाहारकत्वात्, तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र इति, अन्यच्च सुट्ठिए लवणाहिवई' इत्यादि सुगमं, नवरमेष भावार्थ - यस्मात् सुस्थितनामा तदधिपति - लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम्, आधिपत्यं च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसौ लवणसमुद्र इति, तथा चाह - 'सेएएणद्वेण 'मित्यादि । सम्प्रति लवणसमुद्रगतचन्द्रादिसङ्ख्यापरिमाणप्रतिपादनार्थमाह सू. (२०१) लवणे णं भंते! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ?, एवं पंचण्हवि पुच्छा, गोयमा ! लवणसमुद्दे चत्तारि चंदा पभासिंसु वा ३ चत्तारि सूरिया तविंसु वा ३ बारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा ३ तिन्नि बावन्ना महग्गहसया चारं चरिंसु वा ३ दुन्नि सयसहस्सा सत्तट्ठि च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिसु वा ३ ॥ वृ. 'लवणे णं भंते! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह - गौतम ! चत्वारश्चन्द्राः प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, चत्वारः सूर्यास्तापितवन्तस्तापयन्ति तापयिष्यन्ति, तेच जम्बूद्वीपगतचन्द्रसूर्ये सह समश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा - द्वौ सूर्यो एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्ध, द्वौ सूर्यौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बूद्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिबद्ध, द्वौ द्वितीयचन्द्रस्य, तौ चैवम् - यदा जम्बूद्वीपगत एकः सूर्यो मेरोर्दक्षिणतश्चारं चरति तदो लवणसमुद्रेऽपि तेन सह समश्रेण्या प्रतिबद्ध एकः शिखाया अभ्यन्तरं चारं चरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्धः शिखायाः परतः । तदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चारं चरति तेन सह समश्रेण्या प्रतिबद्धो लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चारं चरति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिखायाः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह समश्रेणिप्रतिबद्धा भावनीयाः, अत एव जम्बूद्वीप इव लवणसमुद्रेऽपि यदा मेरोर्दक्षिणतो दिवसः संभवति तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लवणसमुद्रे दिवसस्तथा दक्षिणतोऽपि दिवसस्तदा च पूर्वस्यां पश्चिमायां दिशिलवणसमुद्रे रात्रि, यदा च मेरोः पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवसः, यदा च पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोर्दक्षिणत उत्तरतश्च नियमतो रात्रि, एवं धातकीखण्डादिष्वपि भावनीयं तद्गतानामपि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समश्रेण्या व्यवस्थितत्वात् उक्तं च सूर्यप्रज्ञप्तौ "जया णं लवणसमुद्दे दाहिणड्डे दिवसे भवइ तया णं उत्तरदेवि दिवसे हवइ, जया णं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy