SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ जीवाजीवाभिगमउपाङ्गसूत्रम् १/-/१४ नियमाद् - अवश्यंतया षदिशि व्यवस्थितानि षड्भ्यो दिग्भ्य आगतानीति भावः, द्रव्याण्याहारयन्ति, व्याघातं पुनः प्रतीत्य लोकनिष्कुटादौ स्यात्कदाचित्रिदिशि - तिसृभ्यो दिग्भ्यआगतानि, कदाचित् चतसृभ्यः कदाचित्पञ्चभ्यः काऽत्र भावना ? इति चेदुच्यते - इहलोकनिष्कुटे पर्यन्तेऽधस्त्यप्रतराग्नेयकोणावस्थितो यदा सूक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात् अधोदिकपुद्गलाभावः आग्नेयकोणावस्थितत्वात् पूर्वदिकपुद्गलाभावो दक्षिणदिक्पुद्गलाभावश्च, एवमघः पूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य या परिशिष्टा ऊर्ध्वाऽपरोत्तरा च दिगव्याहता वर्त्तते तत आगतान् पुद्गलानाहारयन्ति, यदा पुनः स एव पृथिवीकायिकः पश्चिमां दिशमनुसृत्य वर्त्तते तदा पूर्वादिगभ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूर्ध्व द्वितीयादिप्रतरगत पश्चिमदिशमवलम्ब्य तिष्ठति तदाऽधस्त्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्त्तिनी अलोकेन व्याहतेति पञ्चदिगागतान् पुद्गलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगधानिवा, रसस्तिक्तानि यावन्मधुराणि स्पर्शतः कर्कशानि यावद्रूक्षाणि, तथा तेषामाहार्यमाणानां पुद्गलानां 'पुराणान्' अग्रेतनान् वर्णगुणान् गन्ध० रस० स्पर्श० 'विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदान्येकार्थिकानि विनाशार्थप्रति पादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह- अन्यान् अपूर्वान् वर्णगुणान् यावत्स्पर्शगुणान् उत्पाद्यात्मशरीरक्षेत्रावगाढान् पुद्गलान् 'सव्वप्पणयाए' सर्वात्मना - सर्वैरेवात्मप्रदेशैराहारमाहाररूपान् पुद्गलानाहारयन्ति ॥ गतमाहारद्वारं, साम्प्रतमुपपातद्वारमाह 'ते णं भंते' इत्यादि, ते भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उत्योत्पद्यन्ते ?, किं नैरयिकेभ् ? इत्यादि प्रतीतं, भगवानाह - गौतम ! नो नैरयिकेभ्य इत्यादि पाठसिद्धं, नवरं देवनैरयिकेभ्य उत्पादप्रतिषेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात्, 'जहा वक्कंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा वक्तव्यं, तच्चैवम्तिर्यग्योनेभ्यो ऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तभ्यो वा केवलमसङ्ख्यातवर्षायुष्कवर्जितेभ्यः, मनुष्येभ्यो ऽप्यकर्मभूमिजान्तरद्वीपजासङ्ख्यातवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति । गतमुपपातद्वारमधुना स्थितिद्वारमाह ‘तेसि णं भंते !” इत्यादि सुगमं, नवरं जघन्यपदा- दुत्कृष्टपदमधिकमवसेयम् ॥ गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं त्रिचिन्तयिषुरिद माह- 'ते णं भंते जीवा' इत्यादि सुगमम्, उभयथाऽपि मरणसम्भवात् । च्यवनद्वारमाह-- 'तेणंभंते जीवा' इत्यादि, 'ते' सूक्ष्मपृथ्वीकायिका भदन्त ! जीवा अनन्तर - मुद्धृत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्येणोदृत्येति भावः क्वगच्छन्ति ? – कवोत्पद्यन्ते ?, एतेनात्मनो गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चात्मानं प्रतिपन्नास्ते निरस्ता द्रष्टव्या, तथारूपे सत्यात्मनि यथोक्तप्रश्नार्थासम्भवात्, 'किं नेरइएसुगच्छन्ति' ? इत्यादि सुप्रतीतं, भगवानाह - 'नो नेरइएसुगच्छन्ति' इत्यादि पाठसिद्धं 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तच्चोत्पादवद् भावनीयमिति गतं च्यवनद्वारमधुना गत्यागतिद्वारमाह Jain Education International For Private & Personal Use Only २८ " www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy