SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २७० जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७९ प्रविभक्त्यशोकलताप्रविभक्तिचम्पकलताप्रविभक्तिचूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्त्यतिमुक्तल ताप्रविभक्तिश्यामलताप्रविभक्त्यभिनयात्मको लताप्रविभक्तिनामा २१, द्वाविंशतितमोद्रुतनामा २२,त्रयोविंशतितमो विलम्बितनामा २३, चतुर्विंशतितमो द्रुतविलम्बितनामा २४। - पञ्चविंशतितमः अञ्चतनामा २५, षड्विंशतितमो रिभितनामा २६, सप्तविंशतितमोऽचि रिभितनामा २७, अष्टाविंशततितम् आरभटनामा २८, एकोनत्रिंशत्तमो भसोलनामा २९, त्रिंशत्तम आरभटभसोलनामा ३०, एकत्रिंश उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेक्करचितभ्रान्तसंभ्रान्तनामा ३१ द्वात्रिंशत्तमस्तु चरमचरमनामानिबद्धनामा, स च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवनचरमगभसंहरणचरमभरतक्षेत्रावसर्पिमीतीर्थकरजन्माभिषकचरमबाल भावचरमयौवनचरमकामभोगचरमनिष्कमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकोभावितः ३२॥ तत्रैतेषां द्वात्रिंशतो नाट्यविधीनांमध्येकांश्चन नाट्यविधीनुपन्यस्यति-अप्येकका देवाः द्रुतं-द्रुतनामकं द्वाविंशतितमं नाट्यविधिमुपदर्शयन्ति, एवमप्ये० विलम्बितं नाट्यविधिमुपदर्शयन्ति, अप्ये० द्रुतविलम्बितं नाट्यविधि, अप्ये० अञ्चितं नाट्यविधि, अप्ये० रिभितं नाट्यविधि, अप्ये० अश्चितरिभितं नाट्यविधि, अप्ये० आरभटं नाट्यविधि, अप्ये० भसोलं नाट्यविधि, अप्ये० आरभटभसोलं नाट्विधिमुपदर्शयन्ति, अप्येकका देवा उत्पातनिपातम् उत्पातपूर्वोनिपातोयस्मिन्स उत्पातनिपातस्तं, एवं निपातोत्पातंसझुंचित-प्रसारित रियारियमिति गमनागमनंभ्रान्तसम्भ्रान्तंनाम, नाट्यविधि सामान्यतो नर्तनविधि द्वात्रिंशद्विध्युत्तीर्णमुपदर्शयन्ति __ अप्ये० देवाश्चतुर्विधं वाद्यं वादयन्ति, --'ततं मृदङ्गपटहादि 'विततं' वीणादिकं 'घन' कंसिकादि 'शुषिरं काहलादि, अप्ये० देवाश्चतुर्विधंगेयंगायन्ति,-'उस्क्षिप्तं प्रथमतः समारभ्यमाणं 'प्रवृत्तम्' उत्क्षेपावस्थातो विक्रान्तं मनाग्भरेण प्रवर्त्तमानं मन्दायमिति- मध्यभागो मूर्छनादिगुणोपेततयामन्दं घोलनात्मकं 'रोचितावसान'मिति रोचितं यथोचित-लक्षणोपेततया भावितं सत्यापितमितियावद् अवसानं यस्य तद् - -अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-दान्तिकंप्रतिश्रुतिकंसामान्यतोविनिपातिकं लोकमध्यावसानिकमिति, एतेऽभिनयविधयोनाट्यकुशलेभ्यो वेदितव्याः, अप्येकका देवाः ‘पीनयन्ति' पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवाः 'ताण्डवयन्ति' ताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'लास्ययन्ति' लास्यरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः 'छुक्करेंति' छूत्कारं कुर्वन्ति, अप्येकका देवाएतानिपीनत्वादीनिचत्वापि कुर्वन्ति, अप्येकका देवा लच्छलन्ति अप्येकका देवाःप्रोच्छलन्तिअप्येकका देवासपदिकांछिन्दन्ति अप्येककास्त्रण्यप्येतानि कुर्वन्ति, अप्येकका देवा हयहेषितानि कुर्वन्ति अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका रथघणघणायितं कुर्वन्ति अप्येकका देवास्त्रण्यप्येतानि कुर्वन्ति, अप्येकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा गल्गन्ति, अप्येकका देवाः सिंहनादं नदन्ति अप्येकका देवाः पाददर्दरकं कुर्वन्ति अप्येकका देवा भूमिचपेटां ददति-भूमिं चपेटयाऽऽ __www.jainelibrary.org Jain Education International For Private & Personal Use Only www
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy