________________
२५४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/दीव०/१७६ वृ. 'तस्सणंबहुसमरमणीयस्सभूमिभागस्से'त्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महती एका मणिपीठिका प्रज्ञप्ता, द्वे योजने आयामविष्कम्भाभ्यामेकं योजनंबाहल्येन सर्वात्मनामणिमयी 'अच्छा' इत्यादिप्राग्वत्। तीसेण'मित्यादि, तस्या मणिपीठिकाया उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टिमानि-सार्धनि सप्त योजनान्यूर्द्धमुच्चैस्त्वेन अर्द्धक्रोशं-धनुःसहस्रमानमुद्वेधेन, अर्द्धक्रशंविष्कम्भेन षडनिक:-षटकोटीकः षड्विग्रहिकः वइरामयवट्टलट्ठसंठिए' इत्यादि महेन्द्रध्वजव वर्णनमशेषमस्यापि तावद्वक्तव्यं यावद् ‘बहवो सहस्पत्तहत्थमा सव्वरणामया अच्छा जाव पडिरूवा' इति।
'तस्सण मित्यादि, तस्य माणवकस्यचैत्यस्तम्भस्योपरिषट्क्रोशान् अवमाह्य उपरितनभागात् षट् क्रोशान् वर्जयित्वेति भावः, अधस्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषुबहवे सुवण्णरूपमया फलगा' इत्यादिफलकवर्णननागदन्तवर्णनं सिक्कगवर्णनंच प्राग्वत्।
'तेसुण मित्यादि, तेषु रजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ताः समुद्रकाः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्धीनि संनिक्षिप्तानि तिष्ठन्ति तानि विजयस्य देवस्यान्येषां चबहूनांवानमन्तराणां देवानां देवीनांचार्चनीयानि चन्दनतःवन्दनीयानिस्तुत्यादिना पूजनीयानि पुष्पादिना गाननीयानि बहुमानकरणतः सत्कारणीयानि वस्त्रादिना कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्धया पर्युपासनीयानि । 'तस्स णमित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी 'अचा' इत्यादि प्राग्वत्।। _ 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणिच भद्रासनानि तत्परिवारभूतानिप्राग्वत्। तस्सण मित्यादि, तस्यमाणवकनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिकाया उपरि अत्र महदेकं दिव) शयनीयं प्रज्ञप्तं, तस्यच देवशयनीयस्यायमेतद्रूपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-नानामणिमयाः प्रतिपादाः-मूलपादानां प्रतिविशिष्टोपटमकरणायपादाः प्रतिपादाः ‘सौवर्णिकाः' सुवर्णमयाः ‘पादाः' मूलपादाः, जाम्बूमदमयानि गात्राणि-ईषादीनि वज्रमया वज्ररत्नपूरिताः सन्धयः, 'नानामणिमये चिच्चे' इति चिच्चं नामच्युतं वानमित्यर्थ, नानामणिमयंच्युतं-विशिष्टवानं रजतमयी तुली लोहिताक्षमयानि “बिब्बोयणा' इति उपधआनखआनइष आह च मूलटीकाकारः"विव्वोयणा-उपधानकानि उच्यन्त" इति, तपनीयमय्यो गण्डोपधानकाः।
सेणं देवसयणिज्जे' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिकं सह आलिङ्गनवाशरीरप्रमाणेनोपधानेयद्तत्तथा 'उभओविव्वोयणे' इति उभयतः-उभौ-शिरोऽन्तपादान्तावानिय विव्वोयणे-उपधानेयत्र यद्उभयतोविब्बोयणं 'दुहतो उन्नतें इतिउभयत उन्नतं मझेणयगंभीरे' इति, मध्येचनतंनिम्नत्वाद् गम्भीरंचमहत्वात् नतगम्भीरं गङ्गालिनवालुकायाअवदालो-विदलनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इतसशकं गङ्गापुलिनवालुकावदालसदृशं, तथा 'ओयविय' इति विशिष्टं परिकर्मितं क्षौम-कासिकं दुकूलं-वस्तंर तदेव पट्ट
ओयवियक्षौमदुकूलपट्टः स प्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईणगरूयबूरनवनीयतूलफासे' इति प्राग्वत्, “रत्तसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुकसंवृतम्, अत एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org