SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः-३, दीव० २२९ भावमुपागता विजयद्वारवत्। 'चंदाननाओ' इति चन्द्रवद् आननं मुखं यासांताश्चन्द्राननाः 'चंदविलासिणीओ' इति चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः 'चंदद्धसमनिडालाओ' इति चन्द्रार्द्धन-- अष्टमीचन्द्रेण सम-समान ललाटं यासां ताश्चन्द्रार्द्धसमललाटाः 'चंदाहियसोमदंसणाओ' इति चन्द्रादप्यधिकं सोमं-सुभगं कान्तिमद्दर्शनं आकारो यासां तास्तथा, उल्का इव द्योतमानाः 'विजुघणमरीचिसूरदिप्पंततेयअहिययरसनिकासाओ' इति विद्युतो येघना-बहुलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानमनावृतं तेजस्तस्मादप्यधिकतरः सत्रिकाशः-प्रकाशो यासांतास्तथा 'सिंगारागारचारुवेसाओ' इति श्रृङ्गारो-मण्डनभूषणाटोपस्तत्प्रधान आकार-आकृतिर्यासांताः श्रृङ्गाराकाराः चारु वेषो-नेपथ्यं यासां ताश्चारुवेषास्ततः कर्मधारये श्रृङ्गाराकारचारुवेषाः 'पासाईयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् । ___विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्य उभयोः पार्श्वयोरेकैकनषेधिकीभावेन 'द्विघातो द्विप्रकारायां नैषेधिक्यां द्वौ द्वौ जालकटको प्रज्ञप्ती, 'तेणंजालकडगा' इत्यादि, तेच जालकटकाकीर्णा रम्यसंस्थाना- प्रदेशविशेषाः 'सव्वरयणामया अच्छा सण्हा जावपडिरूवा' इति प्राग्वत् ॥ "विजयस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोर्द्विघातो नैषेधिक्यां द्वे द्वे घण्टे प्रज्ञप्ते, तासांचघण्टानामयमेतद्रूपः 'वर्णावासः' वर्णकनिवेशःप्रज्ञप्तः, तद्यथा-जाम्बूनदमय्यो घण्टाः वज्रमय्यो लालाः नानामणिमया घण्टापावः तपनीयमय्यःश्रृङ्गला यासुता अवलम्बितास्तिष्ठन्ति रजतमय्यो रज्जवः। ___'ताओणं घंटाओ' इत्यादि, ताश्च घण्टाः 'ओघस्वराः' ओघेन प्रवाहेण स्वरो यासांता ओघस्वराः, मेघस्येवातिदीर्घः स्वरोयासांता मेघस्वराः, हंसस्येव मधुरः स्वरो यासांताहंसस्वराः, एवंक्रोञ्चस्वराः, सिंहस्येवप्रभूतदेशव्यापी स्वरोयासांताःसिंहस्वराः, एवंदुन्दुभिस्वरा नन्दिस्वराः, द्वादशतूर्यसङ्घातो नन्दिः, नन्दिवद्घोषो निनादो यासां ता नन्दिघोषाः, मझुः-प्रियः स्वरो यासां ता मञ्जुस्वराः, एवं मञ्जुघोषाः, किंबहुना?, सुस्वराः सुस्वरघोषाः, 'ओरालेण'मित्यादि प्राग्वत् _ विजयस्सण मित्यादि, विजयस्य द्वारस्योभयोः पाश्वयोर्द्विघातो नैषेधिक्यांद्वेद्वेवनमाले प्रज्ञप्ते, ताश्चवनमाला नानाद्रुमाणां नानालतानांचये किशलयरूपा अतिकोमला इत्यर्थः पल्लवास्तैः समाकुला:-सम्मिश्राः 'छप्पयपरिभुञ्जमाणसोमंतसस्सिरीया' इतिषट्पदैः परिभुज्यमाना सती शोभमाना षट्पदपरिभुज्यमानशोभमाना अत एव सश्रीका ततः पूर्वपदेन विशेषणसमासः, 'पासाईया' इत्यादि पदचतुष्टयं प्राग्वत् ।। मू. (१६८) विजयस्सणंदारस्स उभओपासिंदुहतो निसीहियाए दो दो पगंठगा पण्णत्ता, तेणं पगंठगा चत्तारि जोयणाई आयामविखंभेणं दो जोयणाई बाहल्लेणं सव्ववइरामता अच्छा जाव पडिरूवा। तेसिणं पयंठगाणं उवरिपत्तेयंपत्तेयं पासायवडेंसगाप०, ते णं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसितपहसिताविव विविहमणिरयणभत्तिचित्ता वाउडुयविजयवेजयंतीपडागच्छत्तातिछत्तकलिया तुंगा गगनतलमभिलंघमाण सिहरा जालंतररयणपंजरुम्मिलितब्ब मणिकणगथूभियागा वियसियसयवत्तोंडरीयतिलकरयणद्धयंदचित्ता नानामणिमयदामालंकिया अंतो य बाहिं च सहा तवणिजरुइल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy