________________
प्रतिपत्तिः ३, दीव०
१९७
त्रिभागोनत्वात् उपरि तनुका, मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति'गोपुच्छसंठाणसंठिया' गोपुच्छस्येव संस्थानं गोपुच्छसंस्थानं तेन संस्थिता गोपुच्छसंस्थानसंस्थिता ऊर्ध्वकृतगोपुच्छाकारा इति भावः, 'सव्ववइरामई' सर्वात्मना - सामस्त्येन वज्रमयी-वज्ररनात्मिका 'अच्छा' आकाशस्फटिकवदतिखच्छा 'सण्हा लण्हा' श्लक्ष्णा-लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्ण- दलनिष्पन्नपटवत् 'लण्डा' मसृणा घुण्टितपटवत् 'घट्ठा' घृष्टा इव घृष्टा खरशानया पाषाणप्रतिमावत् 'मट्ठा' मृष्टा इव मृष्टा सुकुमारशानया पाषाणप्रतिमावत् 'नीरजा' स्वाभाविकरजोरहितत्वात् 'निर्मला' आगन्तुकमलाभावात् 'निष्पङ्का' कलङ्कविकला कर्दमरहिता वा 'निक्कंकडच्छाया' इति निष्कङ्कटा निष्कवचा निरावरणा निरुपघातेति भावार्थ छाया - दीप्तिर्यस्याः सा निष्कङ्कटच्छाया 'सप्रभा' स्वरूपतः प्रभावती 'समरीचा' बहिर्विनिर्गतकिरणजाला ।
अत एव 'सोद्योता' बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरी 'प्रासादीया' प्रसादाय - मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनः प्रह्णत्तिकारिणीति भावः 'दर्शनीया' सदर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत इति 'अभिरुवा' इति अभि-सर्वेषां द्रष्टणां मनः प्रसादानुकूलतयाऽभिमुखं रूपं यस्याः सा अभिरूपा, अत्यन्तकमनीयेति भावः, अत एव 'प्रतिरूपा' प्रतिविशिष्टम्असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं नवमिव रूपं यस्याः सा प्रतिरूपा ।
'साणं जगती' इत्यादि, 'सा' अनन्तरोदितस्वरूपा णमिति वाक्यालङ्कारे जगती एकेन 'जालकटकेन' जालानि जालकानि यानि भवनभित्तिषु लोकेऽपि प्रसिद्धानि तेषां कटकःसमूहो जालकटको जालकाकीर्णा रम्यसंस्थानप्रदेशविशेषपङि 'क्तरिति भावः, तेन जालकटकेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन संपरिक्षिप्ता ।
'सेणं जालकडए' इत्यादि, 'सः' जालकटक ऊर्द्धमुच्चैस्त्वेनार्द्धयोजनं-द्वेगव्यते विष्कम्भेन पञ्च धनुःशतानि, किमुक्तं भवति ? –जगत्या प्रायो बहुमध्यभागे सर्वत्र जालकानि तानि च प्रत्येकमूर्द्धमुच्चैस्त्वेन द्वे गव्यते विष्कम्भतः पञ्चधनुःशतानीति, स च जालकटकः 'सव्वरयणामए' इति सर्वात्मना रत्नमयः 'अच्छे सण्हे लहे जाव पडिरूवे' इति यावच्छब्दकरणात् 'घट्टे मट्ठे नीरए निम्मले निष्पके निक्ककडच्छाये सप्पभे समरीए सउज्जीए पासाइए दरिसणिजे अभिरूवे' इति परिग्रहः, एतेषां पदानामार्थ प्राग्वत् ॥
-: "पद्मवर वेदिका' अधिकार :
मू. (१६३) तीसे णं जगतीए उप्पिं बहुमज्झदेसभाए एत्थ णं एगा महई पउमवरवेदिया पं०, साणं पउमवरवेदिया अद्धजोयणं उङ्कं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं सव्वरयणामए जगतीसमिया परिक्खेवेणं सव्वरयणामई० ।
तीसे णं पउमवर वेश्याए अयमेयारूवे वन्नावासे पन्नत्ते, तंजहा- वइरामया नेमा रिट्ठामया पट्ठाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलगा वइरामया संधी लोहितक्खमईओ सूईओ नानामणिमया कलेवरा कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओ जोतिरसामया वंसा वंसकवेल्लुया य रययामईओ पट्टियाओ जातरूवमयीओ ओहाडणीओ वइरामयीओ उवरि पुञ्छणीओ सव्वसेए रययामते साणं छादणे ।।
सा णं पउमवरवेइया एगमेगेणं हेमजालेणं ( एगमेगेणं गवक्खजालेणं) एगमेगेणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International