SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ प्रतिपत्तिः - ३, दे० तहेव भुंजमाणा विहरंति, चमरे य एत्थ असुरकुमारिंदे असुकुमारराया परिवसइ काले महानीलसरिसे जाव पभासेमाणे, सेणं तत्थ चोत्तीसाए भवणावाससयसहस्साणं चउसठ्ठीए सामाणियसहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिन्हं पिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्हं चउसट्टीणं आदरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं दाहिणिल्लाणं देवामं देवीण य आहेवच्चं पोरेवच्चं जाव विहरइ" ।। इति । इदं प्रायः समस्तमपि सुगमं नवरं 'काला लोहियक्ख' इत्यादि, 'काला' कृष्णवर्णा 'लोहियक्खबिंबोट्ठा' लोहिताक्षरलवद् बिम्बवच्च-बिम्बीफलवद् ओष्ठौ येषां ते लोहिताक्षबिबीष्ठाः आरक्तौष्ठा इति भावः, धवलाः पुष्पवत् सामथ्यार्तकुन्दकलिका इव दन्ता येषां ते धवलपुष्पदन्ताः, असिताः -- कृष्णाः केशा येषां ते असितकेशाः, दन्ताः केशश्चामीषां वैक्रया द्रष्टव्या न स्वाभाविकाः, वैक्रयशरीरत्वात्, 'वामेयकुण्डलधराः ' एककर्णावसक्तकुण्डलधारिणः, तथाऽऽर्द्रेण- सरसेन चन्दनेनानुलिप्तं गात्रं यैस्ते आर्द्रचन्दनानुलिप्तगात्राः, तथा ईषत् - मनाक् 'शिलिन्ध्रपुष्पप्रकाशानि' शिलिन्ध्रपुष्पसध्शवर्णानि 'असंक्लिष्टानि' अत्यन्तसुखजनकतया मनागपि सङ्क्लेशानुत्पादकत्वात् 'सूक्ष्माणि' मृदुलघुस्पर्शानि अच्छानि चेति भावः वस्त्रणि प्रवरं सुशोभं यथा भवति एवं परिहिताःपरिहितवन्तः प्रवरवस्त्रपरिहिताः, तथा वयः प्रथमं कुमारत्वलक्षणमतिक्रान्तास्तत्पर्यन्तर्तिन इत्यर्थ, यत आह-द्वितीयं च मध्यलक्षणं वयोऽसंप्राप्ताः, एतदेव व्यक्तीकरोति- 'भद्रे' अतिप्रशस्ये यौवने वर्त्तमानाः 'तलभंगयतुडियवरभूसणनिम्मलमणिरयणमंडियभुया' तलभङ्गका- बाह्लाभर णविशेषाः त्रुटितानि - बाहुरक्षकाः, अन्यानि च यानि वराणि भूषणानि बाह्वाभरणानि तेषु ये निर्मला मणयः - चन्द्रकान्ताद्या यानि रत्नानि इन्द्रनीलादीनि तैर्मण्डितौ भुजौ येषां ते तथा, तता दशभिर्मुद्राभिर्मण्डितौ अग्रहस्ती येषां ते (दशमुद्रा) मण्डिताग्रहस्ताः । 'चूडामणिचित्तचिंधगया' चूडामणि- चूडामणिनामकं चित्रम् - अद्भुतं चिह्नं गतं स्थितं येषां ते चूडामणिचित्रचिह्नगताः, चमरबलिसामान्यसूत्रे 'काला' कृष्णवर्णा, एतदेवोपमानतः प्रतिपादयति- 'महानीलसरिसा ' महानीलं यत्किमपि वस्तुजातं लोके प्रसिद्धं तेन सद्दशाः, एतदेव व्याचष्टे -- नीलगुटिका- नील्या गुटिका गवलं-माहिषं श्रमं तयोरिव प्रकाशः- प्रतिभा येषां ते नीलगुटिकागवलप्रकाशाः, तथा विकसितशतपत्रमिव निर्मले ईषद्देशविभागेन सिते रक्ते ताम्रे च नयने येषां ते विकसितशतपत्रनिर्मूलेषत्सितरक्तताम्रनयनाः, तथा गरुडस्येवायता - दीर्घा ऋज्वी - अकुटिला तुङ्गा- उन्ना नासा - नासिका येषां ते गरुडायतर्जुतुङ्गनासाः । तथा ओयवियं-तेजितं यत् शिलाप्रवाहं विद्रुमंरलं यच्च बिम्बफलं तत्सन्निभोऽधरः - ओष्ठो येषां ते थथा, तथा पाण्डुरं न तु सन्ध्याकालभावि आरक्तं शशिशकलं-चन्द्रखण्डं, तदपि च कथम्भूतमित्याह - विमलं- रजसा रहितं कलङ्कविकलं वा तथा निर्मूलो यो दधिघनः शङ्खो गोक्षीरं यानि कुन्दानि - कुन्दकुसुमानि दकरजः - पानीयकणा मृणालिका च द्वद् धवला दन्तश्रेणिर्येषां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, तथा वैश्वानरेण निर्ध्यातं सत् यद् जायते धीतं निर्मलं तप्तम् उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि - हस्तपादतलानि तलुजिह्वे च येषां ते हुतवहनिर्मातधौततप्ततपनीयरक्ततलतालुजिह्वाः, तथाऽञ्जनं सौवीराञ्जनं घनः-- प्रावृट्कालभावी मेघस्तद्वत् कृष्णाः रुचक्रवद् - रुचकरत्नवद् रमणीयाः स्निग्धाश्च केशा Jain Education International For Private & Personal Use Only www.jainelibrary.org १८१ www
SR No.003348
Book TitleAgam Sutra Satik 14 Jivajivabhigam UpangSutra 03
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages532
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy