________________
१०
जीवाजीवाभिगमउपाङ्गसूत्रम् १/२ जीवाभिगमः प्रश्नसूत्रे संवलित उपन्यस्तस्तं तथैवोच्चासिंवलितनिर्वचनाभिधानमयुक्तं, असंवलितेसंवलितविधानायोगात्, नैष दोषः, प्रश्नसूत्रेऽप्यसंवलितस्यैवोपन्यासाभिन्नजातीययोरेकत्वायोगात्।तत्र यद्यपि यथोद्देशस्तथा निर्देश इतिन्यायोऽस्ति, तथाऽप्यल्पतर-वक्तव्यत्वात् प्रथमतोऽवाभिगममभिधित्सुस्तप्रश्नसूत्रमाह
मू. (३) से किंतंअजीवाभिगमे? अजीवाभिगमे दुविहे पन्नत्ते, तंजहा-रूविअजीवाभिगमे य अरूविअजीवाभिगमे य ।।
वृ.अथ कोऽसौ अजीवाभिगमः?, सूरिराह-अजीवाभिगमो द्विविधःप्रज्ञप्तः, तद्यथारूप्यजीवाभिगोऽरूप्यजीवाभिगमञ्च, रूपमेषामस्तीतिरूपग्रहणं गन्धादीनामुपलक्षणं, तद्वयतिरेदेण तस्यासम्भवात्, तथाहि-प्रतिपरमाणु रूपरसगन्धस्पर्शा, उक्तंच॥१॥ "कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः ।
एकरसगन्धवर्णो द्विस्पर्श कार्यलिङ्गध ॥" एतेन यदुच्यते कैश्चित् ‘भिन्ना एव रूपपरमाणवो भिन्नाश्च पृथक् पृथग्रसादिपरमाणव' इति, तदपास्तमवसेयं, प्रत्यक्षबाधितत्वात्, तथाहि-य एव नैरन्तर्येण कुचकलशोपरिनिविष्टा रूपपरमाणव उपलब्धिगोचरास्तेष्वेवाव्यवच्छेदेन सकलेष्वपि स्पर्शोऽप्युलभ्यते, य एव च घृतादिरसपरमाणवः कर्पूरादिगन्धपरमाणवो वातेष्वेव नैरन्तर्येण रूपं स्पर्शश्चोपलब्धिविषयः, अन्यथा सान्तरा रूपादयः प्रतीतिपथमिग्रियुः ।
न च सान्तराः प्रतीयन्ते, तस्मादव्यतिरेकः परस्परं रूपादीनामिति, रूपव्यतिरिक्ता अरूपिणो-धर्मास्तिकायादयस्तेच तेऽजीवाश्चारूप्यजीवास्तेषामभिगमोऽरूप्यजीवाभिगमः॥
मू. (४) से किंतं अरूविअजीवाभिगमे?, अरूविअजीवाभिगमे दसविहे प०, तंजहाधम्मस्थिकाए एवं जहा पन्नवणाए जाव सेत्तं अरूविअजीवाभिगमे।
वृ.तत्रारूपिणः प्रत्यक्षाद्यविषयाः केवलमागमप्रमाणगम्यास्तत्वत इतिप्रथमतस्तद्विषयं प्रश्नसूत्रमाह-सुगमं, सूरिराह-'अरुवी'त्यादि । अरूप्यजीवाभिगमः ‘दशविधः' दशप्रकारः प्रज्ञप्तः, तदेव दशविधत्वमाह तंजहेत्यादि, 'तद्यथेति वक्ष्यमाणभेदकथनोपन्यासार्थः, धर्मास्तिकायः
‘एवं जहा पन्नवणाए' इति ‘एवम् उक्तेन प्रकारेण यथा प्रज्ञापनायां तथा वक्तव्यं तावद्यावत् 'सेत्तं असंसारसमापन्नजीवाभिगमे इति, तच्चैवम्-"धम्मत्थिकाए धम्मस्थिकायस्स देसे धम्मस्थिकायस्स पएसा अधम्मत्थिकाए अधम्मस्थिकायस्स देसे अधम्मस्थिकायस्स पएसा आगासस्थिकाए आगासस्थिकायस्देसे आगासस्थिकायस्सपएसा अद्धासमये' इति, तत्र जीवानां पुद्गलानां च स्वभावत् एव गतिपरिणामपरिणतानां तत्स्वभावधारणात्पोषणाद्धर्म अस्तयः-- प्रदेशास्तेषां कायः--सातः “गण काए य निकाए खंधे वग्गे तहेव रासी य" इति वचनात् अस्तिकायः-प्रदेशसङ्घात इत्यर्थः ।
धर्मश्वासावस्तिकायश्च धर्मास्तिकायः, अनेन सकलधर्मास्तिकायरूपमवयविद्रव्यमाह, अवयवीच नामअवयवानांतथारूपः सङ्घातपरिणामविशेषएव, नपुनरवयवद्रव्येभ्यः पृथगर्थान्त द्रव्यं, तस्यानुपलम्भात्, तन्तव एव हि आतानवितानरूपसङ्घातपरिणामविशेषमापन्ना लोके पटव्यपदेशभाज उपलभ्यन्ते, न तदतिरिक्तं पटाख्यं नाम द्रव्यम्, उक्तं चान्यैरपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org