________________
११६
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/नै०-२/९५ कियन्ति नरकावासशतसहस्राणिप्रज्ञप्तानि?, भगवानाह-गौतम्! अस्या रत्नप्रभायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येक योजनसहस्रमवगाह्याधस्तादेकं योजनसहन वयित्वा मध्ये मध्यभागे अष्टसप्तत्युत्तरे' अष्टसप्ततिसहस्राधिकेयोजनशतसहनं अत्र' एतस्मिन् रत्नप्रभापृथिवीनैरयिकाणांयोग्यानि त्रिंशन्नरकावासशतसहस्राणिप्रज्ञप्तानि भवन्तीत्याख्यां मया शेषश्च तीर्थकृभिः , अनेन सर्वतीर्थकृतामिसंवादिवचनता प्रवेदिता।
'तेणं नरगा इत्यादि, ते नरका अन्तः' मध्यभागे 'वृत्ताः' वृत्ताकाराः 'बहिः' बहिर्भागे 'चतुरनाः' चतुरस्राकाराः, इदंच पीठोपरिवर्त्तिनंमध्यभागमधिकृत्यप्रोच्यते, सकलपीठाद्यपेक्षया तु आवलिकाप्रविष्ठा वृत्तत्र्यनचतुरनसंस्थानाः पुष्पावकीर्णास्तु नानासंस्थानाः प्रतिपत्तव्याः, एतद्याने स्वयमेव वक्ष्यति, “अहे खुरप्पसंठाणसंठिया" इति, 'अधः' भूमितले क्षुरप्रस्येवप्रहरणविशेषस्य(इव) यत् संस्थानम्-आकारविशेषस्तीक्ष्णतालक्षणस्तेन संस्थिताः क्षुरप्रसंस्थानसंस्थिताः, तथाहि-तेषु नरकावासेषु भूमितले मसृणत्वाभावतः शरिले पादेषु न्यस्यमानेषु शर्करामात्रसंस्पर्शेऽपि क्षुरप्रेणेव पादाः कृत्यन्ते, तथा “निबंधयारतमसा नित्यान्धकाराः उद्दयोताभावतो यत्तमस्तेन-तमसा नित्यं-सर्वकालमन्धकारो येषु ते नित्यान्धकाराः, तत्रापवरकादिष्वपि तमोऽन्धकारोऽस्ति केवलं स बहि सूर्यप्रकाशे मन्दतमो भवति नरकेषु तु तीर्थकरजन्मदीक्षाकालव्यतिरेकेणान्यदा सर्वकालमप्युदद्योतलेशस्याप्यभावतो जात्यन्धस्येव मेघच्छन्नकालार्द्धरात्र इवातीव बहलतरो भवति, तत उक्तं तमसानित्यान्धकाराः, तमश्च तत्र सदाऽवस्थितमुदद्योतकारिणामभावात्, तथा चाह
“ववगयगहचंदसूरनक्खत्तजोइसपहा" व्यपगतः-परिभ्रष्टो ग्रहचन्द्रसूर्यनक्षत्ररूपाणाम् उपलक्षणमेतत्तारारूपाणां च ज्योतिष्काणां पन्था-मार्गो यत्र ते व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः, तथा “मेयवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला" इति स्वभावतः संपन्नैर्मेदोवसापूरुधिरमांसैर्यश्चिखिल्लः-कर्दमस्तेन लिप्तम्-उपदिग्धम् अनुलेपनेन-सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं-भूमिका येषां ते मेदोवशापूतिरुधिरमांसचिक्खिल्ललिप्तानुलेपनतला अत एवाशुचयः-अपवित्रा बीभत्सा दर्शनेऽप्यतिजुगुप्सोत्पत्तेः परमदुरभिगन्धाःमृतगवादिकडेवरेभ्योऽप्यतीवानिष्टदुरभिगन्धाः। _ “काऊअगणिवन्नाभा" इति लोहे धम्यमानेयाक्कपोतो-बहुकृष्णरूपोऽग्रेर्वर्ण, किमुक्तं भवति ?-याशी बहुकृष्णवर्णरूपाऽग्निज्वाला विनिर्गच्छतीति, ताशी आभा-वर्णस्वरूप येषांतेकपोताग्निवर्णाभाः, तथा कर्कशः-अतिदुस्सहोऽसिपत्रस्येव स्पर्शो येषांतेकर्कशस्पर्शाः, अत एव 'दुरहियासा' इति दुःखेनाध्यास्यन्ते-सह्यन्ते इति दुरध्यासा अशुभा दर्शनतो नरकाः, तथा गन्धरसस्पर्शशब्दरशुभा अतीवासातरूपा नरकेषु वेदना ।
एवं सर्वास्वपि पृथिवीष्वालपको वक्तव्यः, स चैवम्-“सक्करप्पभाए णं भंते ! पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवइयं ओगाहित्ता हेठ्ठा केवइयं वजेत्ता मज्झे चेव केवइए केवइया निरयावाससयसहस्सा पन्नत्ता? गोयमा! सक्करप्पभाएणं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एगं जोयणसहस्समोगाहित्ता हेट्ठा गं जोयणसहस्सं वजेत्ता मझेतीसुत्तरजोयणसयसहस्से एत्थणं सक्करप्पभापुढविनेरइयाणंपणवीसा नरयावाससयसहस्सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org