________________
११४
जीवाजीवाभिगमउपाङ्गसूत्रम् ३/३०-१/९३
मित्यादि, तस्यैव पङ्कबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं योजनशतसहस्रमबाधयाऽन्तरंप्रज्ञप्तं ।
'इमीसे ण मित्यादि, अस्य भदन्त ! रलप्रभायाः पृथिव्या रलकाण्डस्योपरितनाच्चरमान्तात्परतोऽबबहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम्?, भगवानाह-गौतम ! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं ।। ___'इमीसेण मित्यादि,अस्याभदन्त! रत्नप्रभायाः पृथिव्यारलकाण्डस्योपरितनाचरमान्तात्परतोऽबबहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! अशीत्युत्तरं योजनशतसहस्रम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनमशीत्युत्तरयोजनशतसहस्रम्, अधस्तने पृष्टे इदं निर्वचनं-द्वे योजनशतसहस्र अबाधयाऽन्तरं प्रज्ञप्तम्।धनवातस्योपरितने चरमन्ते पृष्टिइदमेवनिर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । घनवातस्याधस्तने चरमान्ते पृष्टे एतनिर्वचनम् असङ्खयेयानि योजनशतसहम्नाण्यबाधयाऽन्तरंप्रज्ञप्तम् । एवं तनुवातस्योपरितने चरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम्, असङ्खयेयानि योजनशतसहसण्यबाधयाऽन्तरंप्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकंसर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् ।
'दोच्चाएणं इत्यादि,द्वितीयस्याभदन्त! पृथिव्याउपरितनाच्चरमान्तात्परतोयोऽधस्तनश्चरमान्त एतत् ‘कियत्' किंप्रमाणमबाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौतम ! 'द्वात्रिंशदुत्तरं' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेवनिर्वचनंद्वात्रिंशदुत्तरं योजनशतसहस्रम्, अधस्तने चरमान्तेपृष्टेइदं निर्वचनं-द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याघस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासुच यथा रलप्रभायां तथा वक्तव्यम्, असङ्खयेयानि योजनशतसहसण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ।
___'तच्चाएणंभंते इत्यादि, तृतीयस्या भदन्त! पृथिव्याउपरितनाच्चरमान्ताद्अघस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम ! अष्टाविंशत्युत्तरं शत(सहन)म्अष्टाविंशतिसहस्प्रधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । एतदेव घनोदधेरुपरितनचरमान्तपृच्छायामपि निचनम् । अधस्तनचरमान्तपृच्छायामष्टाचत्वारिंशदुत्तरं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् । एतदेव धनवातस्योपरितनचरमान्तपृच्छायामपि । अधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रलप्रभायां तथा वक्तव्यम् । एवं चतुर्थपञ्चमषष्ठसप्तमपृथिवीविषयाणि सूत्राण्यपि भाव०॥
म. (९४) इमाणंभंते! रयणप्पभापुढवीदोच्चंपुढविंपणिहायबाहल्लेणंकिंतुल्ला विसेसाहिया संखेजगुणा? वित्थरेणं किंतुल्ला विसेसहीणा संखेज्जगुणहीणा?, गोयमा! इमाणं रयण० पु० दोचं पुढवीं पणिहाय बाहल्लेणं नोतुल्ला विसेसाहिया नो संखेनगुणा, वित्थारेणं नोतुल्ला विसेसहीणा नो संखेज्जगुणहीणा । दोच्चा णं भंते ! पुढवी तजे पुढविं पणिहाय बाहल्लेणं किं तुल्ला? एवं चेव भाणितव्वं । एवं तच्चा चउत्थी पंचमी छट्ठी।छट्ठीणं भंते! पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किंतुल्ला विसेसाहिया संखेजगुणा?, एवं चेव भाणियब्वं । सेवं भंते ! २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org