________________
९९
प्रतिपत्तिः-२, सर्वस्तोका अन्तरद्वीपका मनुष्यस्त्रियो मनुष्यपुरुषाश्च, स्वस्थानेतुद्वयेऽपितुल्याः, युगलधर्मोपतत्वात्, एवं देवकुरूत्तरकुर्वकर्मभूमकहरिवर्षरम्यकवर्षाकर्भूमकहैमवतहैरम्यवताकर्मभूमकमनुयस्त्रीपुरुषा यथोत्तरं सङ्खयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽपिभरतैरावतकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्घयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्घयेयगुणाः, स्वस्थानेतुपरस्परंतुल्याः, ताभ्यः पूर्वविदेहापरविदेहकर्मभूमकमनुष्यपुरुषा द्वयेऽपि सङ्ख्यगुणाः, स्वस्थाने तुपरस्परंतुल्याः, तेभ्यो पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्घयेयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थानेतुपरस्परं तुल्याः, ताभ्योऽनुत्तरोपपातिकोपरितनग्रैवेयकमध्यमग्रैवेयकाधस्तनौवेयकाच्युतारणप्राणतानतकल्पदेवुरुषा यथोत्तरं सङ्ख्येयगुणाः।
-ततोऽधःसप्तमषष्ठपृथिवीनैरयिक(न०) सहस्रारकल्पदेवपुरुषमहाशुक्रकल्पदेवपुरुषपञ्चमपृथिवीनैरयिक(न०) लान्तककल्पदेवपुरुषचतुर्थपृथवीनैरयिकनपुंसकब्रह्मलोककल्पदेवपुरुषतृतीयपृथिवीनैरयिकनपुंसकमाहेन्द्रकल्पसनत्कुमारकल्पदेवपुरुषद्वितीयपृथिवीनैरयिकनपुंसकान्तरद्वीपकमनुष्यनपुंसका यथोत्तरमसङ्खयेयगुणाः, ततो देवकुरुत्तरकुर्वकमभूमकहरिवर्षरम्यकवर्षाकर्मभूमकहैमवतहैरण्यवताकर्मभूमकभरतैरावतकर्मभूमकपूर्वविदेहापरविदेहकर्मभूमकमनुष्यनपुंसका यथोत्तरं सङ्ख्येयगुणाः, स्वस्वस्थानेषु तु द्वये परस्परं तुल्याः, ततईशानकल्पदेवपुरुषा असङ्ख्येयगुणाः,तत ईशानकल्पदेवस्त्रियः सौधर्मकल्पदेवपुरुषाः सौधर्मकल्पदेवस्त्रियो यथोत्तरं सङ्ख्येयगुणाः, ततो भवनवासिदेवपुरुषा असोयगुणाः।
तेभ्यो भवनवासिदेवस्त्रियः सङ्घयेयगुणाः,तेभ्योऽस्यारत्नप्रभायांपृथिव्यां नैरयिकनपुंसका असङ्ख्येयगुणाः, ततः खचरतिर्यग्योनिकस्त्रियोवानमन्तरा देवपुरुषावानमन्तरदेवनयोज्योतिष्कदेवपुरुषाज्योतिष्कदेवस्त्रियो यथोत्तरं सङ्ग्येयगुणाः, ततः खचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसका असङ्खयेयगुणाः, ततः स्थलचरजलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः क्रमेण सङ्ख्येयगुणाः, ततश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रयतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततस्तेजःकायिकैके० असङ्ख ततः पृथिव्यबवायुकायिकतिर्य० यथोत्तरं विशेषाधिकाः।
ततो वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, निगोदजीवानामनन्तत्वात्।साम्प्रति स्त्रिपुरुषनपुंसकानां भवस्थितिमानंकायस्थितिमानंचक्रमेणाभिधातुकाम आह
मू. (७१) इत्थीणं भंते ! केवइयं कालं ठिती पन्नत्ता?, गोयमा! एगेणं आएसेणं जहा पुब्बि भणियं, एवं पुरिसस्सवि नपुंसकस्सवि, संचिट्टणा पुनरवि तिण्हपि जहापुब्बिं भणिया, अंतरंपि तिण्हपि जहापुब्बिं भणियंतहा नेयव्वं ॥
वृ. 'इत्थीणं भंते! केवइयंकालं ठिई पन्नत्ता?, इत्यादि, एतत्सर्वंप्रागुक्तवद्भावनीयम्, अपुनरुक्तताचप्राक् स्त्र्यादीनां पृथक् स्वस्वाधिकारेस्थित्यादिप्रतिपादितमिदानींतुसमुदायेनेति
सम्प्रति स्त्रीपुरुषनपुंसकानामल्पबहुत्वमाह-'एयासि णं भंते ! इत्थीण'मित्यादि, सर्वस्तोकाः पुरुषाः स्त्र्यादिभ्यो हीनसङ्ख्याकत्वात्, तेभ्यः स्त्रियः संखे० -,ताभ्यो नपुंसका अनन्तगुणाः, एकेन्द्रियाणामनन्तानन्तसङ्क्षयोपेतत्वात् । इह पुरुषेभ्यः स्त्रियः सङ्ख्ये० इत्युक्तं, तत्र काः स्त्रियः स्वजातिपुरुषापेक्षया कतिगुणा इति प्रश्नावकाशमाशङ्खयतनिरूपणार्थमाह
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only