________________
२८४
राजप्रश्नीयउपाङ्गसूत्रम्-३४ णमितिवाक्यालङ्कारे, हेमजालादीनंनिजालानि,कचित्दामाइति पाठः, तत्रतावत् हेमजालादिरूपा दामान इति, 'तवणिज्जलंबूसगा' इत्यादि हयसंघाटादिसूत्रं लतासूत्रं च प्राग्वत् । सम्प्रति पावरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति
से केणडेणं भंते !' इत्यादि, सेशब्दोऽथशब्दार्थे, केनार्येन-केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तंभवति? पावरवेदिकेत्येवंरूपस्य शब्दस्य तत्र प्रवृत्ती किं निमित्तमिति, एवमुक्ते भगवानाह-गौतम! पद्मवरवेदिकायांतत्र तत्र एकदेशे तस्यैव देशस्य तत्र तत्र एकदेशे वेदिकासु-उपवेशनयोग्यभत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्वेषु वेइयपुडंतरेसु' इति द्वे वेदिके वेदिकापुटं तेषामन्तराणि-अपान्तरालानि तानिवेदिकापुटान्तराणितेषु, तथास्तम्भेषुसामान्यतःस्तम्भबाहासु-स्तम्भपार्वेषु 'खंभसीसेसु' इतिस्तम्भशीर्षेषु 'स्तम्भपुटंतरेसु' इति द्वौ स्तम्भौ स्तम्भपुटं तेषामन्तराण स्तम्भपुटान्तराणि तेषु, सूचाषु-फलकसंबन्धविघटनाभावहेतुपाकास्थानीयासुतासामुपरीतितात्पर्यार्थः, सूईमुहेसु' इति यत्र प्रदेशे शूची फलकं भित्वामध्ये प्रविशतितप्रत्यासत्रो देशः सूचीमुखं तेषु तथा सूचीफलकेषु सूचिभिसंबन्धिनोये फलकप्रदेशास्तेऽप्यपचारात्सूचिकफलकानितेषुसूचीनामधउपरिवर्तमानेषु तथा 'सूईपुटंतरेसु' इति द्वे सूच्यौ सूचीपुटै तदन्तरेषु पक्षाः पक्षबाह वेदिकैकदेशविशेशास्तेषु ।
बहुनि उत्पलानिगर्दभकानि पद्मानि-सूर्यविकासीनि कुमुदानि-चन्द्रविकासीनि नलिनानि ईषदरक्तानि पद्मानि सुभगानि-पद्मविशेषरूपाणि सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-सिताम्बुजानि तान्येव महान्तिमहापुण्डरीकाणि शतपत्राणि-पत्रशतकलतानि सहस्रपत्राणि-पत्रसहस्रोपेतानि, शतपत्रसहस्रपत्रे च पद्मविशेषौ पत्रसंख्याविशेषाच्च पृथगुपात्ते ।
एतानि सर्वरलमयानि 'अच्छा' इत्यादि विशेषणाजातं प्राग्वत्, ‘महया वासिक्कछत्तसमाणाई इति महान्ति-महाप्रमाणाना वार्षिकाणि-वर्षाकालेपानीयरक्षार्थयानिकृतानिवार्षिकाणि तानि चतानि छत्राणि च तत्समानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! - _ 'सेएएणमटेण'मित्यादि, तदेतेन अर्थेन–अन्वर्थेन गौतम! एवमुच्यते-पद्मवरवेदिकेति, तेषुतेषुयथोक्तरूपेषुप्रदेशेषु यथोक्तरूपाणिपानिपावरवेदिकाशब्दस्यप्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति । 'पउमवरवेइया णं भंते ! किंसासया' इत्यादि, पद्मवरवेदिका 'ण' मिति पूर्ववत् किं शाश्वती स्यादशाश्वती, कथंचिन्नित्याकथञ्चिदनित्या इत्यर्थः, स्याच्छब्दो निपातः कथंचिदित्येतदर्थवाची, 'से केणटेण'मित्यादि प्रश्नसूत्रसुगम, भगवानाह-गौतम! द्रव्यार्थतया-द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेवतात्विकमभिमन्यतेनपर्यायान्, द्रव्यंचान्वयिपिणामित्वात् अन्वयित्वाच्चसकलकालभावीतिभवति द्रव्यार्थतयाशाश्वती, वर्णपर्यायरतत्तदन्यसमुत्पद्यमनवर्णविशेषरूपैः, एवंगन्धपर्यायः रसपययिः स्पर्शपर्याय उपलक्षणमेतत् त्तदन्यपुद्गलविचटनोच्चटनैश्च अशाश्वती
किमुक्तं भवति? पर्यायारितकनयमतेन पर्यायाप्रधान्यविवक्षायामशाश्वती, पर्यायाणां प्रतिक्षणभावितया कियत्कालभावितया विनाशित्वात्, ‘से एएमटेण' मित्युधुपसंहारवाक्यं सुगम, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो नाशः 'नासतो विद्यतेभावो, नाभावो विद्यते सतः' इति वचनात्, यौतुद्दश्येतेप्रतिवस्तु उत्पादविनाशी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org