________________
२४२
राजप्रश्नीयउपाङ्गसूत्रम्-२१
सम्यगष्टिको मिथ्याष्टिकः, सम्यगधष्टिरपिकश्चित्परिमितसंसारोभवति कश्चिद-परिमितसंसारः, उपशमश्रेणिशिरःप्राप्तानामपि केषाञ्चिदनन्तसंसारभावाद्, अतः पृच्छति-परीत्त-संसारोकिऽ. नन्तसंसारिकः?, परीत्तः-परिमितः स चासौ संसारश्च परीत्तसंसारः, परीत्तसंसा-रिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिदुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधि-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्भबोधिकः, सुलभबोधिकोऽपिकश्चिद्घोधिं लब्ध्वा विराधयतिततः पृच्छति--आराधयति-सम्यक्पालयति बोधिमित्याराधकः, तद्विपरीतो विराधकः, आराधकोऽपि कश्चित्तद्भवमोक्षगामी न भवति । ततः पृच्छति-चरमोऽचरमोवा?, चरमोऽनन्तरभावी भवो यस्यासौ चरमः।
'अभ्रादिभ्य इति मत्वर्थीयोऽप्रत्ययस्तद्विपरीतोऽचरमः, एवमुक्ते सूर्याभादि श्रमणो भगवान् महावीरस्तं सूर्याभं देवमेवमवादीत्-भोः सूर्याभ ! त्वं भवसिद्धिको नाभवसिद्धिकः, यावत्करणात् ‘सम्मबिट्ठी नो मिच्छादिट्टी परित्तसंसारिए नो अनंतसंसारिए सुल्लभबोहिए नो दुल्लभबोहिए आराहए नो विराहए' इति परिग्रहः ।
मू. (२२) तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुट्ठ चित्तमा दिए परमसोमनस्से समणं भगवं महावीरं वंदति नमसति २ एवं वदासी
तुब्भेणं भंते ! सव्वं जाणह सच्चं पासह (सवओ जाणह सव्वओ पासह) सव्वं कालं जाणह सव्वं कालं पासह सव्वे भावे जाणह सब्वे भावे पासह जाणंतिणं देवाणुप्पिया मम पुट्विं वा पच्छा वा ममेयरूवं दिव्वं देविडं दिव्वं देवजुई दिव्वं देवानुभागं लद्धं पत्तं अभिसमणागयंति
तंइच्छामिणंदेवाणुप्पियाणं भत्तिपुव्वगंगोयमातियाणंसमणाणं निग्गंथाणं दिव्वंदेविडिंढ दिव्वं देवजुइंदिव्वं देवानुभावं दिव्य बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए।
वृ. तुमेणंभंते ! तुझे इति यूयं णमिति वाक्यालङ्कारे भदन्त ! सर्व केवलवेदसा जानीथ सर्वं केवलदर्शनेन पश्यथ, अनेन द्रव्यपरिग्रहः, तत्र सर्वशब्दो देशकास्न्येऽपिवर्तते यथाअस्य सर्वस्यापि ग्रामस्यायमधिपतिरिति सचराचरविषयज्ञानदर्शनप्रतिपादनार्थमाह-'सब्बतो जाणह सब्बओ पासह' सर्वतः-सर्वत्र दिक्षु ऊर्ध्वमधा लोकेऽलोके चेति भावः, जानीथ पश्यथ च, अनेन क्षेत्रपरिग्रहः, तत्र सर्वद्रव्यसर्वक्षेत्रविषयं वार्त्तमानिकमात्रमपि ज्ञानं दर्शनं वा सम्भाव्येत ततः सकलकालविषयज्ञानदर्शनप्रतिपादनार्थमाह-सर्वकालम् अतीतमनागतंवर्तमानंचजानीय पश्यथ, एतेन कालपरिग्रहः, तत्र कश्चित्सर्वद्रव्यसर्वक्षेत्रसर्वकालविषयमपिज्ञानसर्वपर्यायविषयं नसम्भावयेत् यथामीमांसकादिअत आह-सर्वान् भावान् पर्यायान्प्रतिद्रव्यामात्मीयान्परकीयांश्च केवलवेदसाजानीथकेवलदर्शनेनपश्यथ, अथभावादर्शनविषयान भवन्ति ततः कथमुक्तं
___ 'सव्वे भावे पासह इति?, नैष दोषः, उत्कलितरूपतया हि ते भावा दर्शनविषया न भवन्ति, अनुत्कलितरूपतया तु ते भवन्त्येव, तथा चोक्त्-"निर्विशेष विशेषाणां, ग्रहो दर्शनमुच्यते,"इति, ततो 'जाणंतिणमितिपूर्ववत्देवानांप्रियाः पूर्वमपिअनन्तरमुपदर्श्यमाननाट्यविधेः पश्चादपि च उपदर्यमाननाट्यविधेः, उत्तरकालं मम एतद्रूपां दिव्यां देवर्द्धि दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं देशान्तरगतमपि किञ्चिद्भवति तत आह-प्राप्तं, प्राप्तमपि किञ्चिदन्तरायवशादनात्मवशं भवति तत आह-अभिसमन्वागतं, तत 'इच्छामि णमि' त्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.ja