________________
२३३
मूलं-१५ मधमघंतगन्धुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूय' मिति प्राग्वत्, तथा अप्सरोगाणानां सङ्घः-समुदायस्तेन सम्यग-रमणीयतया विकीर्ण-व्याप्तमप्सरोगणसङ्घविकीर्ण, तथा दिव्यानां त्रुटितानाम आतोद्यानां-वेणुवीणामृदङ्गादीनां ये शब्दास्तैः सम्प्रणादितं- सम्यक्श्रोत्रमनोहारितया प्रकर्षेण नादितं-शब्दवद् दिव्यत्रुटितशब्दसम्प्रणादितं, 'अच्छं जाव पडिरूव'मिति यावच्छब्दकरणात् 'अच्छं सण्हं मटुं नीरयं निम्मलं निप्पंक निककडच्छायंसप्पभं समिरियं सउज्जोयंपासाइयंदरिसणिज्जं अभिरुवं पडिरूव' मिति द्रष्टव्यं, एतच प्राग्वद्याख्येयं ।
___ 'तस्स णमित्यादि, तस्य ‘णमिति प्राग्वत् प्रेक्षागृहमण्डपस्यान्तः मध्ये बहुसमरणीयं भूमिभागविकुर्वन्ति, तद्यथा-आलिंगपुष्करमितिवेत्यादि, तदेव तावद्वक्तव्यंयामन्मणिस्पर्शसूत्रपर्यन्तः, तथा चाह-'जावमणीणं फासो' इति । तस्स णमित्यादि, तस्यणमितिपूर्ववत्प्रेक्षागृहमण्डपस्य उल्लोकम्-उपरिभागं विकुर्वन्ति पद्मलताभक्तिचित्रं 'जाव पडिरूवमि' ति, यावच्छब्दकरणात् 'अच्छं सण्ह' मित्यादिविशेषणकदम्बकपरिग्रहः ।
___ 'तस्सणमित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमद्यदेशभागेअत्र 'ण'मिति पूर्ववत् एकं महान्तं वज्रमयमक्षपाटं विकुर्वन्ति, तस्य चाक्षपाटकस्य बहुमध्यदेशभागे तत्रैकां महतीं मणिपीठिका विकुर्वन्ति, अष्टौ योजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहुल्येन-उच्चैस्त्वेनेति भावः, कथंभूतांतांविकुर्वन्तीत्यत आह ‘सर्वमणिमयीं' सर्वात्मना मणिमयीं यावत्करणादच्छामिद्यादिविशेषसमुहपरिग्रहः, तस्याश्चमणिपीठिकायाउपर्यत्र महदेकं सिंहासनं विकुर्वन्ति, तस्य च सिंहासनस्यायमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथाःतपनीयमयाः चक्कला रजतमयाः सिहास्तैरुपशोभितं सिंहासनमुच्यते, सौवर्णिकाः-सुवर्णमयाः पादाः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना अवयवविशेषाः, जम्बूनदमयानि गत्राणि वज्रमयावज्ररत्नापूरिताः सन्धयो-गात्राणां सन्धिमेलाः नानामणिमयं वेचं-तज्जातः ।
'सेणंसीहासणइत्यादि' तसिंहासनमीहामृगऋषभतुरगनरमकरव्यालककिन्नररुरुसरभचरमरवनलतापद्मलताभक्ति चित्रं '(सं) सारसारोवचियमणिरयणपायपीठ'मिति (सं) सारसारैः प्रधानैः-प्रधानः मणिरत्नैरुपचितेन पादपीठेन सह यत्तत्तथा, प्राकृतत्वाच्च पदोपन्यासव्यत्ययः 'अच्छरयमउमसूरगनवतयकुसन्तलिम्बकेसरपञ्चत्युयारिभिरामे इति' अस्तरकम्आच्छादकं मृदु यस्य मसूरकस्य तदस्तरकमृदु, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ताः दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वकशान्ताः-प्रत्यग्रत्वगदर्भपर्यन्तरूपाणि लिम्बानि-कोमलानि नमनशीलानि च केसराणि मध्ये यस्य मसूरकस्य तत् नवत्वकशान्तलिम्बकेशरम् आस्तरकमृदुना मसूरकेणनवत्वक्कशान्तलिम्बकेसरेण प्रत्यवस्तृतम्आच्छादितं सत्यदभिरामंतत्तथा, शान्तलिम्बकेशरम् आस्तरकमृदुना मसूरकेण नवत्वक्कशान्तलिम्बकेसरेण प्रत्यवस्तृतम् आच्छादितं सत् यदभिरामं तत्तथा-, _ विशेषणपूर्वापरनिपातोयाईच्छिकःप्राकृतत्वात्, ‘आईणगरुअबूरनवणीयतूलफासे' इति पूर्ववत्, तथा 'सुविरइयरयत्ताणे' तथा सुष्ठुविरचितं सुविरचितंरजमणमुपरि यस्य तत्सुविरचितरजस्त्राणं, 'उवचियखोमियदुगुल्लपट्टपडिच्छयण'मिति, उपचितं-परिकर्मितं यत्क्षीमंदुकूलंकासिकंवस्त्रंपरिच्छादनं रजसणस्योपरिद्वितीयमच्छादनंयस्यतत्तथा, तत उपरि रत्तंसुयसंयुडे'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org