________________
२१८
राजप्रश्नीयउपाङ्गसूत्रम्-१०
चर्मेष्टकद्रुधणमुष्टिकसमाहतनिचितगात्राः, 'उरस्सबलसमण्णागए' इति उरसि भवं उरस्यं तच्च तलं च उरस्यबलं तत्समन्वा गतः-समनुप्राप्तः उस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इतिभावः, 'तलजमलयुगलवाहू तली-तालवृक्षौतयोर्यमलयुगलंसमश्रेणीकं युगलंतलयमलयुगलं तदतिसरली पीवरौ च बाहु यस्य स तलयमलयुगलबाहुः 'लंघमपवणजइणपमद्दणसमत्थे इति लखने-अतिक्रमणेप्लवने-मनाक्पृथुतरविक्रमवतिगमनेजवने-अतिशीघ्रगतौ प्रमर्दनेकठिनस्यापि वस्तुनश्रूण्र्णनकरणे समर्थ लानप्लवनजनवप्रमईनसमर्थः ।
कवचित् 'लंघणपवणजइणवायामणसमत्थे' इति पाठः, तत्र व्यायामने व्यायामकरणे इति व्याख्येयं, छेको-द्वासप्ततिकलापण्डितो, दक्षः-कार्याणामविलम्बितकारी प्रष्ठो-वाग्मी कुशलः-सम्यकक्रियापरिज्ञानवान् मेघावी परस्पराव्याहतः पूर्वापरानुसन्धानदक्षः, अत एव 'निपुणसिप्पोवगए' इति निपुणः तथा भवति एवं शिल्पं-क्रियासु कौशलं उपगतः-प्राप्तो निपुणशिल्पोपगतः एकंमहान्तं शिलाकाहस्तक-सरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः, वाशब्दो विकल्पार्थो, ‘दंडसंपुच्छणिवा' इति दण्डयुक्ता सम्पुच्छनीसन्मार्जनी दण्डसम्पुच्छनी तांवा 'वेणुसिलागिगंवा' इति वेणुः-वंशस्तस्य शलाका वेणुशलाकास्ताभिर्निवृत्ता वेणुशलाकाकी-वेणुशलाकामयी सम्मार्जनी तांवा गृहीत्वा राजाङ्गणं राजान्तःपुरं वादेवकुलं वा 'सभांवा' सन्तो भान्त्यस्यामिति सभा-ग्रामप्रधानानां नगरप्रधानानां यथासुखमवस्थानहेतुर्मण्डपिका तां वा।
'प्रपां वा' पानीयशालां 'आरामं वेति' आगत्यागत्य भोगपुरुषा वरतरुणीभि सह यत्र रमन्ते--क्रिडन्ति स आरामो नगरानातिदूरवत्तीक्रिडाश्रयः तरुखण्डः तं 'उजाणं वेति' ऊर्द्ध विलम्बितानि प्रयोजनाभावात् यानानि यत्र तदुधानं-नगरात्प्रत्यासन्नवर्ती यानवाहनक्रिडागृहाद्याश्रयस्तरुखण्डः, तथा अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे वा सम्यक्चवराद्यपगमासम्भवात्, निरन्तरंनत्वपान्तरालमोचनेन, सुनिपुणंश्लक्ष्णस्याप्यचोक्षस्यापसारणेन, सर्वतः-सर्वासुदिक्षु विदिक्षुसमन्ततः-समास्त्येन सम्प्रमार्जयेत्, ‘एवमेवे'त्यादि, सुगम यावत् खिप्पामेव पञ्चुवसमंती'त्यादि, एकान्तेतृणकाष्टाद्यपनीय क्षिप्रमेव-शीघ्रमेव प्रत्युपशाम्यन्ति प्रत्येकं ते आभियोगिका देवाः 'उपशाम्यन्ति' संवर्तकवायुविकुर्वण्णान्निवर्तन्ते, संवर्तकवातविकुर्वणमुपसंहरन्तीति भावः, ततो 'दोच्चंपि वेउब्वियसमुग्धाएणंसमोहणंति' संवर्तकवातविकुर्वमार्थहियढेलाद्वयमपि वैक्रयसमुद्घातेनसमवहननंतत्किलैकंइदं त्वअवार्दलकविकुर्वणार्थ द्वितीयमत उक्त-द्वितीयमपिवारंवैक्रयसमुद्घातेन समवहन्यन्ते (नन्ति), समवहत्य चाभवादलकानि विकुर्वन्ति, वाः-पानीयं तस्य दलानि वार्दलानि तान्येव वार्दलकानि मेघा इत्यर्थ, अपो बिभ्रतीति अप्राणि-मेघाः, अब्भ्राणि सन्त्यस्मिन्निति 'अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, आकाशमित्यर्थ, अब्ने वादलकानि अब्धवादलकानि तानि विकुर्वन्ति, आकासे मेघानि विकुर्वन्तीत्यर्थः।
'से जहानामए भइगदारगे सिया' इत्यादि पूर्ववत् 'निउणसिप्पोवगए एगं महमित्यादि, स यथानामको मृतिकदारक एकं महान्तं दकवारकंवा मृत्तिकामयभाजनविशेषंदगकुंभगंवा 'ति दकघटं दकस्थालकं वा-कंसादियमयमुकदमृतं भाजनं दककलसं वा-उदकभृत भङ्गारं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org