________________
राजप्रीयउपाङ्गसूत्रम् ४
श्चितादिवियुक्तत्वमिति - विभ्रमो वक्तुर्भ्रान्तमनस्कता विक्षेपो-वक्तुरेवाभिधेयार्थ प्रत्यनासक्तताकिलिकिश्चितं - रोषभयलोभादिभावानां युगपदसकृत्करणं आदिशब्दान्मनोदोषान्तरपरिग्रहः तैर्वियुक्तं यत्तत्तथा तद्भावस्तत्वं ।
२०८
अनेकजातिसंश्रयाद्विचित्रत्वं सर्वभाषानुयायितया चित्ररूपता, आहितविशेषत्वं शेषपुरुषवचनापेक्षया शिष्येषूत्पादितमतिविशेषता, साकारत्वं विच्छिन्नपदवाक्यता, सत्वपरिगृहीतत्वम् - ओजस्विता, अमरिखेदित्वम् - अनायाससम्भवात्, अव्यवच्छेदित्वं विवक्षितार्थसम्यकसिद्धिं यावदविच्छिन्नवचनप्रमेयतेति । 'आगासफालियामरणं' आकाशस्फटिकं - यदाकाशवत् अतिस्वच्छफटिकं तन्मयेन 'धम्मज्झएणं' ति धर्मचक्रवर्तित्वसूचकेन केतुवना महेन्द्रध्वजेनेत्यर्थः ।
तथा 'पुव्याणुपुव्विं चरमाणे' इति पूर्वानुपूर्व्या क्रमेणेत्यर्थ चरन् - सञ्चरन्, एतदेवाह'गामाणुगामं दूइजमाणे' इति ग्रामश्चानुग्रामश्च विवक्षितग्रामादनन्तरं ग्रामो ग्रामानुगामं, तत् द्रवन् गच्छन्, एकस्मादनन्तरं ग्राममनुल्लङ्घ्यन् इत्यर्थः, अनेनाप्रतिबद्धविहारिता ख्यापिता, तत्राप्यौत्सुक्याभावमाह-'सुहंसुहेणं विहरमाणे' सुखंसुखेन - शरीरखेदाभावेन संयमबाधाविरहेण च ग्रामादिषु विहरन् - अवतिष्ठमानो 'जेणेव 'त्ति प्राकृतत्वात्सप्तम्यर्थे तृतीया यस्मिन्नेव देशे आमलकल्पा नगरी यस्मिन्नेव च प्रदेशे वनखण्डो यस्मिन्नेव देशे सोऽनन्तरोक्तस्वरूपः शिलापट्टकः
'तेणामेवे 'ति तस्मिन्नेव देशे उपागच्छति, उपागत्य च पृथिवीशिलापट्टके पूर्वाभिमुखः, तीर्थकृतो हि भगवन्तः सदा समवसरणे पृथिवीशिलापट्टके वा देशनायै पूर्वाभिमुखा अवतिष्ठन्ते संपर्यङ्कनिषण्णाः, संयमने तपसा चात्मानं भावयन् विहरन् आस्ते ।। ततः वर्षान्निर्गमो वाच्यः, सचैवं-'तएणं आमलकप्पानयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजणो अन्नमन्नं एवमाइकखइ एवं भासेइ एवं पन्नवेइ एवं परूवेइ ।
एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव आगासगएणं छत्तेणं जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तं महाफलं खलु देवाणुप्पियाणं तहारूवाणं अरहंताणं नामगोयस्सवि सवणयाए किमंग पुण अभिगमनवंदननमंसणपडिपुच्छणपजुवासणयाए ?, तं सेयं खलु एगरसवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुन विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवाणुप्पिया ! समणं भगवं महावीरं वंदामो नम॑सामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासेमो, एवं तं इहभवे परभवे य हियाए आणुगामियत्ताए भविस्सइ, तएणं आमलकप्पाए नयरीए बहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसातव्यं यावत् समग्राऽपि राजप्रभृतिका परिषत्पर्युपासीना अवतिष्ठते ।
मू. (५) ते णं काले णं ते णं समए णं सूरियाभे देवे सोहम्मे कप्पे सूरियामे विमाणे सभाए सुहम्माए सूरियाभंसि सिंहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिवाराहिं तहिं परिसाहिं सत्तहिं अनियाहिं सत्तहिं अनियाहिवईहिं सोलसहिं आयरक्खदेवसाहसीहिं अन्नेहि
बहूहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे महयाऽSहयनट्टगीयवाइयतंतील तालतुडियघणमुइंगपडुप्पवादियरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । इमं च णं केवल कप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org