________________
मूलं-३
२०१ समासः, ततो भूयः पूर्वपदेन विशेषणसमासः, तथा अभ्यन्तराणि अभ्यन्तरभागवर्तीनि पुष्पाणि च फलानि च पुष्पफलानि येषां ते तथा, 'बाहिरपत्तोच्छन्ना इति' बहिस्तः पत्रैश्छन्ना-व्याप्ता बहिपत्रच्छन्नाः, तथा पत्रैश्च पुष्पैश् अवच्छन्नपरिच्छन्नाः अत्यन्तमाच्छादिताः, तथा नीरोगकाः रोगवर्जिता अकण्टककाः-कण्टकरहिताः, न तेषां प्रत्यासन्ना बब्बूलादिवृक्षाः सन्तीति भावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, तथा स्निग्धानि फलानि येषां ते स्निग्यफलाः ।
तथा प्रत्यासनैर्नानाविधैः-नानाप्रकारैर्गुच्छै:-वृन्ताकीप्रभृतिभिर्गुल्मैः--नवमालिकादिभिर्मण्डपकैः शोभिता नानाविधगुच्छगुल्ममण्डपकशोभिताः, तथा विचित्रैः-नानाप्रकरारैः शुभैः-मण्डनभूतैः केतुभि-ध्वजैर्बहुला-व्याप्ता विचित्रशुभकेतुबहुला-, तथा वाविपुक्खरिणीदिहियासुयसुनिवेसियरम्मजालधरगा' वाप्यश्चतुरनकारास्ता एव वृत्ताः पुष्करिण्यः, यदिवा पुष्कराणि वर्तन्ते यासुताः पुष्करिण्यः, दीर्घिका-ऋजुसारिण्यः, वापीषुपुष्करिणीषु दीर्घिकासु च सुष्टु निवेशितानि रम्याणि जालगृहकाणि येषु ते वापीपुष्करिणीदीर्घिकासु सुनिवेशितरम्यजालगृहकाः, तथा पिडिमा-पिण्डिता सती निर्हारिमा-दूरं विनिर्गच्छन्ती पिण्डिमनिर्हारिमा तां सुगन्धिं सुगन्धिकां शुभसुरभिभ्यो गन्धान्तरेभ्यः सकाशात् मनोहरा शुभसुरभिमनोहरा तांच। ___'महया' इति प्राकृतत्वात् द्वितीयार्थे तृतीया, महतीमित्यर्थ, गन्धध्राणिं यावद्भिर्गन्धपुग्लैर्गन्धविषये गन्धधाणिरुपजायतेतावतीगन्धपुद्गलसंहतिरुपचारात् गन्धध्राणिरित्युच्यते, तांनिरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउबहुला' इतिशुभाः-प्रधाना इति सेतवो-मार्गाआलवालपाल्यो वाकेतवो-ध्वजा बहुला वहवो येषांतेतथा, 'अनेगरहसगडजाणजुग्गगिल्लिथिल्लिसिवियसंदमाणियपडिमोयणा' इति, रथा द्विविधा-क्रिडारथाः सङग्रामरथाश्च, शकटानिप्रतीतानि, यानानि-सामान्यतः शेषाणि वाहनानि युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानिजम्पानानि शिबिकाः-कूटाकारणाच्छादिताजम्पानविशेषाः स्यन्दमानिकाः पुरुषप्रमाणजम्पानविशेषाः, अनेकेषां रथशकटादीनांमध्येऽतिविस्तीर्णत्वात्, प्रतिमोचनं येषु तत्तथा, 'पासादीया' इत्यादिपदचतुष्टं प्राग्वत् ।
"तेणंतिलगा' इत्यादिपाठसिद्धं, नवरं नागलयाहिं तिनागाः-दुमविशेषाः ‘वणलयाहिं' तिवनाअपिद्रुमविशेषाः, द्रुमाणांचलतात्वमेकशाखाकानांद्रष्टव्यं, ये हिद्रुमा ऊर्ध्वगतैकशाखा न तु दिग्विदिकप्रसृतबहुशाखास्ते लता इति प्रसिद्धाः, 'निचं कुसुमियाओ जावपडिरूवाओ' इत्यत्रयावच्छब्दकरणात् 'निनं कुसुमियाओ निचं मालइयाओ निचं लवइयाओ निचं थवइयाओ निच्चं गुच्छियाओ निचं गुम्मियाओ निच्चं जमलियाओ निचं जुयलियाओ निचं विणमियाओ निच्चं पणमियाओ सुविभत्तपडिमंजरिवडिंसगधरीओ निच्चं कुसुमियलइयथवइयलवइयगुम्मियजमलियजुयलियगुच्छियविणमयपणमियसुविभत्तपडिमंजरिवडिंसगधरीओ संपिंडियदरियभमरमहुयरिपहकरपरिल्लेतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजंतदेसभागाओपासाइयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ इति' एतच्च समस्तं प्राग्वत् व्याख्येयं, तस्य 'ण'मिति प्राग्वत्, अशोकवरपादपस्य उपरि बहूनि अष्टावष्टौमङ्गलकानि प्रज्ञप्तानि ।
तद्यथा-स्वस्तिकः श्रीवृक्षो 'नंदियावत्ते' इति नन्द्यावतः क्वचिद् नन्दावत्त इति पाठः, तत्र नन्दावर्त इति शब्दसंस्कारः, वर्द्धमानकं-शरावसम्पुटं भद्रासनं कलशोमत्स्ययुगमंदर्पणः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org