SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मूलं - ४४ ३१३ प्रविश्य मणिपीठिकायाः सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च क्रमेण पूर्ववदर्चनिकां करोति । ततोऽत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेणालङ्कारिकसभां प्रविशति, प्रविश्य मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्वदर्चनिकां करोति, तत्रापि क्रमेण सिद्धायतनवत् दक्षिणद्वाराऽऽदिका पूर्वनन्दापुष्करिणीपर्यवसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति, प्रविश्य पुस्तकरनं लोमहस्तकेन प्रमृज्योदकधारया अभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यैरर्चयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीठिकायाः सिंहासनस्य बहुमध्यदेशभागस्य च क्रमेण पूर्वदर्चनिकां करोति । तदनन्तरमत्रापि सिद्धायतनवत् दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना अर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे समागत्य तस्य बहुमध्यदेशभागवत् अर्चनिकां करोति, कृत्वा चाभियोगिकदेवान् शब्दापयति, शब्दापयित्वा एवमवादीत् । 'खिप्पामेवेत्यादि सुगमं यावत् 'तमाणत्तियं पञ्चप्पिणंति' नवरं शृङ्गाटक- शृङ्गाटकाSS कृतिपथयुक्तं त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति, चतुष्कं चतुष्पथयुक्तं, चत्वरं - बहुरध्यापातस्थानं, चतुर्मुखं यस्माच्चतसुष्वपिदिक्षुपन्थानो निस्सरन्ति, महापथोः -- राजपथः शेषः सामान्यः पन्थाः पंथाः प्रकारः प्रतीः, अट्टालकाः - प्राकारस्योपरि बृत्याश्रयविशेषाः, चरिका अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्ग द्वाराणि - प्रासादादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि - द्वरादिसम्बन्धीनि आरमन्ते यत्र माधवीलतागृहादिषु दम्पत्यावित्यसावारामः, पुष्पादिमयवृक्षसंकुलमुत्सवादी बहुजनोपभोग्यमुद्यानं, सामान्यवृक्षवृन्दनगरासन्नं काननं, नगरविप्रकृष्टं वनम्, एकाऽनेकजातीयोत्तमवृक्षसमूहो वनखण्डः, एकजातीयोत्तमवृक्षसमूहो वनराजी । 'तएण' मित्यादि, ततः सूर्याभदेवो बलिपीठे बलिविसर्जनं करोति, कृत्वा चोत्तरपूर्वानन्दापुष्करिणीमनुप्रदक्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति, अनुप्रविष्य च हस्तौ पादी प्रक्षालयति प्रक्षाल्य नन्दापुष्कारण्याः प्रत्यवतीर्य सामानिकादिपरिवारसहितः सर्वर्ध्या यावद् दुन्दुभिनिर्घोषनादितरवेण सूर्याभविमाने मध्यंमध्येन समागच्छन् यत्र सुधर्माम सभा तत्रागत्य तां पूर्वद्वारेण प्रविशति, प्रविश्य मणिपीठिकाया उपरि सिंहासने पूर्वाभिमुखो निषीदति ।। मू. (४५) तए णं तस्स सूरियाभस्स देवस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं दिसिभाएणं चत्तारि य सामानियसाहस्सीओ चउसु भद्दासमसाहस्सीसु निसीयंति तए णं तस्स सूरियाभस्स देवसुस पुरत्थिमिल्लेणं चत्तारि अग्गमहिसीओ चउसु भद्दासनेसु निसीयंति । तए णं तस्स सूरियाभस्स देवस्स दाहिणपुरत्थिमेणं अभिंतरियपरिसाए अट्ट देवसाहस्सीओ अट्टसु भद्दासनसाहस्सीसु निसीयंति, तए णं तस्स सूरियाभस्स देवस्स दाहिणेणं मज्झिमाए परिसाए दस देवसाहस्सीओ दससु भद्दासणसाहस्सीसु निसीयंति । तए णं तस्स सूरियाभस्स देवस्स दाहिणपञ्चत्थिमेणं बाहिरियाए परिसाए बारस देवसाहस्सीतो बारससु भद्दासनसाहस्सीसु निसीयंति, तए णं तरस सूरियाभस्स देवस्स पच्चत्थिमेणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy