SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ३११ मूलं-४४ अरुजं शरीरमनसोरभावेनधिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात् अक्षयं विनाशकारणाभावात् अव्याबाधंकेनापि बाधयितुमशक्यममूर्तत्वात्न पुनरावृत्तिर्यस्मात् तदपुनरावृत्ति सिध्यन्ति-निष्ठितार्था भवन्त्यस्यामिति सिद्धि-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गति सिद्धिगतिरेव नामधेयं यस्य तत् सिद्धिगतिनामधेयं स्थानं तसंप्राप्तेभ्यः, एवं प्रणिपातडकं पठित्वा। ततो 'वंदइ नमसइ इति वन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोति पश्चाप्रणिधानादियोगेनेत्येके,अन्ये त्वभिदधति-विरतिमतामेवप्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकायव्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोतिआशयवृद्धेरभ्युत्थानमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत ऊर्दूत्रं सुगमं केवलं भूयान् विधिविषयो वाचनाभेद ति यथावस्थितवाचनाप्रदर्शनार्थं विधिमात्रमुपदयते तदनन्तरं लोमहस्तकेन देवच्छन्दकंप्रमार्जयतिपानीयधारयाअभ्युक्षति, अभिमुखं सिञ्चतीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङगुलितलं ददाति, ततः पुष्पारोहणादि धूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागेउदकधाराभ्युक्षणचन्दनपञ्चाङ्गुलितलप्रदानपुष्पपुञोपचारधूपदानादि करोति, ततः सिद्धायतनदक्षिणद्वारे समागत्य लोमहस्तकंगृहीत्वा तेन द्वारशाखे शालिमलिकाव्यालरूपाणिच प्रमार्जयति,तत उदकधारयाऽभ्युक्षत्रणंगोशीर्षचन्दनचर्चापुष्पाद्यारोहणं धूपदानं करोति। ततो दक्षिणद्वारेण निर्गत्य दक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागे लोमहस्तकेन प्रमाग्योदकधाराभ्युक्षणं चन्दनपञ्चांगुलितलप्रदानपुष्पपुलोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारेसमागत्य पूर्ववत्द्वारार्चनिकांकरोति कृत्वाचतस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरस्यां स्तम्भपङ्कनौ समागत्य पूर्ववत्तदनिकां विधत्ते, इहयस्यां दिशि सिद्धायतनादिद्वारंतत्रेतरस्य मुखमण्डपस्य स्तम्भपङ्कित, ततस्तस्यैव दाक्षिणात्यस्य मुखमण्डपस्यपूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा तस्य दाक्षिणात्यस्य मुखमण्डपस्य दक्षिणद्वारे समागत्य पूर्ववत्पूजां विधाय तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे समागत्याक्षपाटकं मणिपीठिकां सिंहासनं च लोमहस्तकेन प्रमाज्योर्दकधारयाऽभ्युक्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यव प्रेक्षामण्डपस्य क्रमेण पश्चिमोत्तरपूर्वदक्षिणद्वाराणामनिकांकृत्वादक्षिणद्वारेण विनिर्गत्यचैत्यस्तूपं मणिपीठिकांच लोमहस्तकेन प्रमाज्योर्दकधारयाऽभ्युक्ष्यसरसेनगोशीर्षचन्दनकन पञ्चांगुलितलं दत्त्वा पुष्पाद्यारोहणं च विधाय धूपं ददाति।। ततो यत्र पाश्चात्या मणिपीठिका तत्रागच्छति, तत्रागत्यालोके प्रणामं करोति, कृत्वा लोमहस्तकेन प्रमार्जनं सुरभिगन्धोदकेन स्नानं सरसेन गोशीर्षचन्दनेन गात्रानुलेपनं देवदूष्ययुगलपरिधानंपुष्पद्यारोहणंपुरतः पुष्पपुओपचारं धूपदानंपुरतो दिव्यतन्दुलैरष्टमङ्गलकालेखनमष्टोतरशतवृत्तैः स्तुतिं प्रणिपातदण्डकपाठं च कृत्वा वन्दते नमस्यति। ततएवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमा नामप्यर्चनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य दक्षिणस्यां दिशियत्र चैत्यवृक्षः तत्रसमागत्य चैत्यवृक्षस्यद्वारवदनिकांकरोति, ततोमहेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा पुष्करिणी तत्र समागच्छति, समागत्य तोरणत्रिसोपानप्रतिरूपकग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy