SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २९८ राजप्रश्नीयउपाङ्गसूत्रम्-४० तस्य च हृदस्य उत्तरपूर्वस्यां दिशि अत्र महत्येकाअभिषेकसभा प्रज्ञप्ता, सा च सुधर्मसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिप्रकारेण तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैव उल्लोकवर्णनं भूमिभागवर्णनं च तावत् यावन्मणीनां स्पर्श, तस्या अभिषेकसभाया बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे महत्येका मणिपीठिका प्रज्ञप्ता, साऽप्यष्टौ योजनान्यायामविष्कम्माभ्यां चत्वारि योजनानि बाहल्यतः 'सब्बरयणामयी' इत्यादि प्राग्वत् । ___ तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहसनं, सिंहासनवर्णकः प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनान च वक्तव्यानि, तस्मिंश्च सिंहासने सूर्याभस्य देवस्य सुबहु अभिषेकभाण्डम्-अभिषेकयोग्य उपस्कारः सन्निक्षिप्तः तिष्ठति, 'तीसेणंअभिसेयसभाएअट्ठट्ठमंगलका' इत्यादिप्राग्वत्, तस्याश्च अभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकाअलङ्कारसभा प्रज्ञप्ता, साचाभिषेकसभावत्प्रमाणस्वरपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारण तावद्वक्तवया यावद् परिवारसिंहासनं, तत्र सूर्याभस्य देवस्य अलङ्कारिक अलङ्कारयोग्यं भाण्डं संनिक्षिप्तमस्ति, शेषां प्राग्वत्। तस्याश्च अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्रमहत्येका व्यवसायसभा प्रज्ञप्ता, साच अभिषेकसभावत् प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णनम्कारेणतावद्वक्तव्यायावतसिंहासनं सपरिवारं, तत्रमहदेकंपुस्तकरलं सन्निक्षिप्तमस्ति, तस्यचपुस्तकरलस्यअयमेतद्रूपो 'वर्णावासो' वर्णकनिवेशः प्रज्ञप्तः, रिष्ठमय्यौ–रिष्ठरलमय्यौ कम्बिके पृष्ठके इत भावः, रत्नमयो दवरको यत्र पत्राणिप्रोतानि सन्ति, नानामणिमयोग्रन्थि दवरकस्यादौ येन पत्राणिननिर्गच्छन्ति, अङ्करलमयानि पत्राणि, नानामणिमयं लिव्यासनं, मषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का, रिष्ठरलमयं उपरितनंतस्य छादनं, रिष्ठमयी-रिष्ठरत्नमयी मषी, वज्रमयी लेखनी, रिष्ठमयान्यक्षराणि, धार्मिक लेख्यं, कवचित् धम्मिए सत्थे' इति पाठः, तत्र धार्मिकं शास्त्रमिति व्याख्येयं, तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशिमहदेकं बलिपीठंप्रज्ञप्तं, तच्चाष्टौयोजनानि आयामविष्कम्भतः चत्वारियोजनानि बाहल्यतः सर्वरत्नमयं 'अच्छ' मित्यादि प्राग्वत् । तस्य च बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रज्ञप्ता, सा च हृदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् । तदेवंयत्र याद्दगुरूपंच सूर्याभस्य देवस्य विमानंतत्र ताध्यूपंचोपनर्णितं, सम्प्रति सूर्याभो देव उत्पन्नः सन् यदकरोत् यथा च तस्याऽभिषेकोऽभवत् तदुपदर्शयति मू(४१) तेणंकालेणंतेणं समएणं सूरियाभे देवेअहुणोववण्णभित्तए वेवसमाणे पंचविहाए पज्जत्तीए पजत्तीभावंगच्छइ, जहा-आहारपजत्तीए सरीरपजत्ती इंदियपज्जत्तीएआणपाणपजत्तीए भासामणपजत्तीए। तएणंतस्स सूरियाभस्स देवस्स पंचविहाए पजत्तीए पञ्जत्तीभावंगयस्स समाणस्स इमेयालवे अब्भथिए चितिए पत्थिए मनोगए संकप्पे समुपजित्था-किं मे पुट्विं करणिजं? किं मे पच्छा करणिज्जं? किं मे पुब्बिं सेयं ? किं मे पच्छा सेयं ? कि मे पुबिपि पच्छावि हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy