________________
१४८
औपपातिकउपासूत्रम्-३३ तत्र विदेशे परिपिण्डिता-मिलिता यास्तास्तथाताभि, इंगियचिंतियपत्थियवियाणियाहिं' इङ्गितेन चेष्टितेन चिन्तितं प्रार्थितं च वस्तु जानन्ति यास्तास्तथा, पाठान्तरे 'इंगियचिंतियपत्थियमनोगतवियाणियाहिं' इङ्गितेन चिन्तितप्रार्थिते मनोगते-मनसि वर्तमाने वचनादिनाऽनुपदेशित विजानन्ति यास्तास्तथा ताभिः, “सदेसणेवत्थगहियवेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः।
तथा 'चेडियाचक्कवालपरिसधरकंचुइज्जमहत्तरवंदपरिक्खित्ताओ' वर्षधराः-वर्द्धितकाः कञ्चुकिनस्तदितरे च ये महत्तरा--अन्तःपुररक्षकास्तेषां यद्वन्दं तेन परिक्षिप्ता यास्तास्तथा, 'नियगपरियाल सद्धिं संपरिवुडाओ'त्ति निजकपरिवारेण लुप्ततृतीयैकवचनदर्शनात् साधु-सह संपरिवृताः-तेनैव परिवेष्टिताः “ठियाउ चेव'त्ति ऊर्ध्वस्थिता एवेति ॥
मू. (३४)तएणं समणे भगवं महावीरे कूणिअस्सभंभसारपुत्तस्स सुभद्दाप्यमुहाणं देवीणं तीसे अमहतिमहालियाए परिसाएइसीपरिसाए मुणिपरिसाएजइपरिसाए देवपरिसाए अनेगसयाए अनेगसयवंदाए अनेगसयवंदपरिवाराए ओहबले अइबले महब्बले
-अपरिभिअबलवीरियतेयमाहप्पकंतिजुत्ते सारयनवत्थनियमहुरगंभीरकोंचनिग्योसदुंदुभिस्सरे उरेवित्थडाए कंठेऽवट्टियाए सिरे समाइण्णाए अगरलाए अमम्ममाए सव्वक्खरसण्णिवाइयाए पुन्नरत्ताए सव्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासति अरिहा धम्म परिकहेइ।
वृ. 'तीसे य महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थ, ‘इसिपरिसाए त्ति पश्यन्तीति ऋषयस्तएवपरिषत्-परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानिसाधूनामित्यर्थः, धर्म कथयतीति योगः, 'मुनिपरिसाए' मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोधतसाधूनामित्यर्थः, 'अनेगसयवंदाए'त्ति अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अनेगसय-वंदपरियालाएं अनेकशतमानानि यानि वृन्दानि तानि परिवारोयस्याः सा तथा तस्या।
किम्भूतो भगवानित्याह-'ओहबले'त्ति अव्यवच्छिन्नबलः 'अइबले'त्ति अतिशयबलः 'महब्बले त्ति प्रशस्तबलः 'अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते अपरिमितानि अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्-जीवप्रभवं तेजो-दीप्तिः महास्यं-महानुभावता कान्ति-काम्यता, 'सारयनवत्थणियमहुरगंभीरकुंचनिग्धोसदुंदुभिस्सरे' शारदं-शरत्कालीनं यन्नवस्तनितं-मेघध्वनितं तदिवमधुरो गम्भीरश्च कौञ्चनिर्घोषवच्च दुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्मं कथयतीत्याह
'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात्, सरस्वत्येतियोगः, कंठेऽवष्टियाए गलविवरस्य वर्तुलत्वात् 'सिरे समाइण्णाए' मूर्धनि सङ्कीर्णया आयामस्य मूर्जा स्खलितत्वात् 'अगरलाए तिसुविभक्ताक्षरतया 'अमम्मणाए'त्ति अनपखञ्चयमानतया सव्वक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगोयस्यांसा तथा तया 'पुण्णरत्ताएत्ति पूर्णाच स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया, कवचिदिदं विशेषणद्वयं-'फुडविसयमहरगंभीरगाहियाए' स्फुटविशदा अत्यन्तव्यक्ताक्षरा स्फुटविषया वा-स्फुटार्थामधुरा-कोमला गम्भीरामहती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽतस्तया, सव्वकखरसण्णिवाइयाए'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org