________________
मूलं-३१ निम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दीप्तया तत्तथा तेन, 'मंगलसयमत्तिछेयविचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणगघंटियापयलियकिणिकिणितसुइसुहसुमहुरसद्दाल सोहिएणं' मङ्गलाभि-माङ्गल्याभि शतभक्तिभिः-शतसझ्याविच्छित्तिभिः छेकेन-निपुणेन शिल्पिना विचित्रितं यत्तत्तथा !
किङ्किणीभिः क्षुद्रघण्टिकाभिमणिहेमजालेनच-रत्नकनकजालकेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परिवेष्टितंयत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिप्रचलिताभिः किणिकिणायमानाभि श्रुतिसुखसुमधुरशब्दवतीभिश्च, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, ‘सप्पयरवरमुत्तदामलंबंतभूसणेणं सप्रतराणिआभरणविशेषयुक्तानि यानि वरमुक्तादामानि-वरमुक्ताफलमालाः लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरुंदपरिमंडलेणं' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमाने रुन्दं वीस्तीर्ण परिमण्डलं-वृत्तभाव यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदोसनासणेण शीतातपवातवृष्टिविषजन्यदोषाणांशीतादिलक्षणदोषाणां वा विनाशनं यत्तत्तथा तेन।
_ 'तमरयमलबहलपडणघाडणप्पभाकरेण' तमः-अन्धकारं रजो-रेणुमलः-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभा- कान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने रभाकर इव-दिवाकर इव यत्तत्तथा, 'उउसुहसिवच्छायसमणुबद्धेणं ऋतौ कालविशेषे सुखा-सुखहेतुः ऋतुसुखा शिवा-निरुपद्रवा या छायाआतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियदंडसज्जिएणं'ति वैडूर्यमयदण्डे सज्जितं-वितानितंयत्तत्तथा तेन, 'वइरामयवस्थिनिउणजोइयअदुसस्सवरकंचणसलागनिम्मिएणं वज्रमय्यां वस्ती-शलाकानिवेशनस्थानेनिपुणेन शिल्पिनायोजिताः-सम्बन्धिताः अद्वसहस्सत्ति-अष्टोत्तरसहस्रसङ्ख्याःया वरकाञ्चनशलाकास्ताभिर्निर्मितं यत्तत्तथा तेन, सुनिम्मलरययसुच्छएणं तिसुनिर्मलो रजतस्य सम्बन्धीसुच्छदः-शोभनप्रच्छादनपटो यत्र तत्तथा तेन । _ निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयग्गपडिहय-पुनरविपबायडंतचंचलमिरिइकवयंविर्णिमुयंतेणं' निपुणेन शिल्पिना निपुणं वायथा भवतिएवंउवियत्तिपरिकर्मितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरलानि तानि तथा सूरमण्डलाद्आदित्यबिम्बात् ये वितिमिराहतान्धकाराःकराः-किरणा निर्गतास्तेषां यान्यग्राणितानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्तिच-प्रतिवर्तमानानि यस्माच्चञ्चलमरीचि-कवचात्तत्तथा
अथवा सूरमण्डल वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्यापतञ्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरकरनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता–विसृजता, 'सपडिदंडेणं' अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिजमाणेणं आयवत्तेणं विरायंते इति व्यक्तम्, अधिकृतवाचनायतुचतुश्चामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चउहियपवरगिरिकुहरविचरणसुमुइयनिरुवहयचमरपच्छिमसरीरसंजायसंगयाहिं चउहियत्ति-चतसृभिः ।
"ताहिय'त्ति क्वचित् तत्र तामिश्च तथाविधाभिर्वर्णकवर्मितस्वरूपाभिचामराभिकलित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org