SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ १२४ औपपातिकउपाङ्गसूत्रम्-२६ बाधाजनकत्वात् (वर)मुकुटाश्चतुरस्रशेखर विशेषाः तिरीटास्त एवशिखरत्रययुक्तास्तान्धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, 'मउडदित्तसिरय'त्ति मुकुटेन दीप्ताः शिरोजा मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'रत्ताभत्ति लोहितवर्णा 'पउमपम्हगोर'त्ति कमलगर्भकान्ताः पीता इत्यर्थ, सेय'त्ति शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, यदाह॥१॥ "कणगत्तयरत्तामा सरवसभा दोसुहोति कप्पेसु। तिसुहोति पम्हगोरा तेण परं सुक्कला देवा ॥" शेषं व्यक्तमेवेति । पुस्तकान्तरे देवीवर्णको श्यते, सचैवम्-'तेणंकालेणं तेणं समएणं समणस्स भगवओमहावीरस्स बहवे अच्छरगणसंघायाअंतिअंपाउब्मवित्था, ताओणंअच्छराओ धंतधोयकण-गरुअगसरिसप्पभाओ' मातम्-अग्निनातापितं धीतं-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वर्णस्तत्सहशप्रभाः गौरामय इत्यर्थ, 'समइक्वंताय बालभावं'ति अतिक्रान्ता इव शिशुत्वं, मध्यम- जरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोम्मचारुरुवा' अनतिवरम् अविद्यमानहासतयाप्रधानं न विद्यतेअतिवरंयस्मात्तदनतिवरमिति वासौम्यं-नीरोगं चारु-शोभनं रूपं यासांतास्तथा । निरुवहयसरसजोव्वणकक्कसतरुणवयभावमुवगयओ' निरुपहतं-रोगादिनाअबाधितं सरसंच-शृङ्गाररसोपेतंनिरुपहतोवा स्वोरसोयत्रतत्तथाविधंयौवनंतताकर्कशः अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवनतरुणभावयोर्यधप्येकार्थता तथापि सरसत्वाश्लथाङ्गत्वलक्षणयोर्मनःशरीराश्रितयोःप्रधानतया विवक्षितयोर्धर्मयोराधारतया भेदेन विवक्षणानपीनरुक्त्यमिति, निचमवठियसहावा नजरांप्राप्नुवन्तीत्यर्थ, 'सव्यंगसुंदरीउत्ति 'इच्छियनेवत्थरइयरमणिजगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वा अत एव रमणीयो गृहीतः आत्तो वेषः-आकृतिविशेषो यकाभिस्तास्तथा। किंते'त्तितद्यथार्थ 'हारद्धहारपाउत्तरयणकुंडलवासुत्तगहेमजालमणिजालकणगजालसुभगउरितियकडगखड्डगएगावलिकंठसुत्तमगहगधरच्छगेवेजोणिसुत्तगतिलगफुल्लगसिद्धस्थियकण्णवालियससिसूरउसभचक्कयतलमंगयतुडियहत्थमालयहरिसकेऊरवलयपालंबपलं बंगुलिज्जगवलक्खदीणारमालियाचंदसूरमालियाकंचिमेहलकलावपयरगपरिहेरगपायजालघंटियाखिखिणिरयणोरुजालखुड्डियवरेउरचलणमालियाकणगणिगलजालगमगरमुहविरायमाणनेऊरपचलियसद्दालभूसणधरीउ तिहारादीनि मकरमुखविराजमाननूपुरान्तानिप्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा। तत्रहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानिरलकुण्डलानि-प्रतीतानि अथवाप्रयुक्तरत्नकुण्डलानि प्रयुक्तरत्लानियानिकुण्डलानि तानितथा तथा व्यामुक्तकानि-परिहितानि प्रलम्बितानि वा यानिहेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः सच रूढिगम्यः सूत्रकं-वैकक्षककृतं सुवर्मसूत्रम् उरितिय'त्ति उरसि त्रिकं त्रिसरकं कटकानि कङ्कणानि खड्डगत्ति-अङ्गुलीयकवशेषः। __एकावली-नानामणिकमयीमाला कण्ठसूत्रं-गलावलम्बि सङ्कलकविशेषःमगधकंधराक्षं चरूढिगम्यं ग्रैवेयकं-कण्ठलं श्रोणिसूत्रकं-सौवर्णं कटीसूत्रं तिलको विशेषको ललाटाभरण For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003346
Book TitleAgam Sutra Satik 12 Auppatik UpangSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages150
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 12, & agam_aupapatik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy